________________
द्वितीयो रागविवेकाध्यायः
पड्जग्रामः षड्जमध्यमया सृष्टस्तारषड्जग्रहांशकः ।। २७ ।। संपूर्णो मध्यमन्यासः षड्जापन्यासभूषितः। अवरोहिप्रसन्नान्तर्भूषः षड्जादिमूर्छनः ॥ २८ ॥ काकल्यन्तरसंयुक्तो वीरे रौद्रेऽद्भुते रसे। विनियुक्तः प्रतिमुखे वर्षासु गुरुदैवतः ॥ २९ ॥ गेयोऽह्नः प्रथमे यामे षड्जनामाभिधो बुधैः।
संसंरी गधगरिस सनिधापाधाधारीगासां । री गा सा सग पनिधनिस सा सा । गसरिग पधनिप मामाइत्यालापः।
री री गाधा गरि सासा नींधपापा। री री गध परि सा सां सां सां । सां सां गानिधा रीरीगा। धा गारी सा सा निधपापा। री री पापा निधनि सां सां सां । सरि सरि पधनिध पमामामामा-इति करणम् ।
१.
री री गा स ज य
सा गा री गा सा तु भू ता
(क०) एवं रागभेदप्रतिपत्तिदाव्य विशेषप्रदर्शनाय च प्रासङ्गिकमुक्तम् । इदानीं प्रकृतमनुसरामः । अथ षड्जनामाभिधं रागं लक्षयतिषड्जमध्यमया सृष्ट इत्यादिना । स्पष्टोऽर्थः ॥ २७-३०॥
(सं०) षड्जग्रामरागं लक्षयति-षड्जमध्यमयेति । अत्र सुगमत्वान व्याख्येयं किंचित् ॥ २७-३० ।।
Scanned by Gitarth Ganga Research Institute