________________
द्वितीयो गगविवेकाध्यायः
अधुनाप्रसिद्धरागागादीनि अथाधुनाप्रसिद्धानामुद्देशः प्रतिपाद्यते ॥ ९ ॥ मध्यमादिर्मालवश्रीस्तोडी बङ्गाल भैरवी । 'वराटी गुर्जरी गौडकोलाहलवसन्तकाः ॥ १० ॥ धन्यासीदेशिदेशाख्या रागाङ्गाणि त्रयोदश। डोम्बक्री सावरी वेलावली प्रथममञ्जरी ॥ ११ ॥ आडिकामोदिका नागध्वनिः शुद्धवराटिका। नहा कर्णाटबङ्गालो भाषाङ्गाणि नवाब्रुवन् ॥ १२ ॥ क्रियाङ्गत्रितयं रामकृतिौडकृतिस्तथा । देवक्रीरित्यथोपाङ्गसप्तविंशतिरुच्यते ॥ १३ ॥ कौन्तली द्राविडी सैन्धव्युपस्थानवराटिका । हतस्वरवराटी च स्यात्प्रतापवराटिका ॥ १४ ॥ वराट्यः षडिति च्छायातुरुष्काये तु तोडिके। महाराष्ट्री च सौराष्ट्री दक्षिणा द्राविडीत्यमूः ॥ १५ ॥
(सं०) प्रसिद्धा ग्रामरागाद्याः पञ्चमरेवगुप्तनट्टनारायणादयः; तेऽपि देशीशब्देनोच्यन्ते । ते च रागाङ्गादयो द्विविधा:-पूर्वप्रसिद्धा अधुनाप्रसिद्धाश्च । तत्र पूर्वप्रसिद्धानामुद्देशं प्रतिज्ञाय कथयति-तत्रेति । शंकराभरणादयः पलव्यन्ता अष्टौ रागाङ्गाणीति, गाम्भीर्यादयो वैरञ्ज्यन्ता एकादश भाषाङ्गाणीति, भावक्रयादयो विजयक्रयन्ता द्वादश क्रियाङ्गाणीति, पूर्णाटीदेवालगुरुञ्जिकास्त्रय उपाङ्गानीत्येवं चतुस्त्रिंशत् प्राक्प्रसिद्धाः ॥ ३-८ ॥
(क०) डोम्बक्रीति भूपालीपर्यायः । कामोदासिंहलीत्येको रागः, छायानद्देति च । उपाङ्गेषु रामकृतिौलिपर्यायः । देशवालः केदारगौलः ।
1वरालि.
Scanned by Gitarth Ganga Research Institute