________________
संगीतरत्नाकरः
[प्रकरणम् उक्ताश्चतस्रो गुर्जर्यो भुञ्जिका स्तम्बतीथिका । छायाप्रतापोपपदे वेलावल्यौ च भैरवी ॥ १६ ॥ कामोदासिंहली छायानद्दा रामकृतिस्तथा । भल्लातिका च मल्हारी मल्हारो गौडकास्ततः ॥१७॥ कर्णाटो देशवालश्च तौरुष्कद्राविडाविति । एतेऽधुनाप्रसिद्धाः स्युपश्चाशन्मनोरमाः ॥ १८ ॥ सर्वेषामपि रागाणां मिलितानां शतद्वयम् ।
चतुःषष्टयधिकं ब्रूने शाी श्रीकरणाग्रणीः ।। १९ ।। तौरुष्को मालवगौड एव । एते रागाङ्गादयः कतिचित्प्रसिद्धत्वेनोद्दिष्टाः । अन्येऽप्यप्रसिद्धा बहवः सभवन्त्येव । तथाह मतङ्ग:-“देशजानां रागाणामानन्त्यादनिबद्धत्वाच्च संख्या नास्तीति मन्तव्यम्" इति ॥ ९-१९ ।।
(सं०) अधुनाप्रसिद्धानुद्दिशति- अथेति । मध्यमाद्यादयो देशाख्यान्तास्त्रयोदश रागाङ्गाणि । डोम्बक्रयादयः कर्णाटबङ्गालान्ता नव भाषाङ्गाणि । रामकृतिगौडकृतिदेवक्रयस्त्रयः क्रियाङ्गाणि | कौन्तल्यादयो द्राविडगौडान्ताः सप्तविंशतिरुपाङ्गानि । एवं द्वापश्चाशत् । अधुनाप्रसिद्धानां रागाङ्गादीनां लक्षणमुक्तं मतलेन
"अतः परं प्रवक्ष्यामि देशीरागकदम्बकम् । लक्ष्यलक्षणसंयुक्तं त्रिविधं चापि संयुतम् ।। रागाङ्गं चैव भाषाङ्गं क्रियानं च तृतीयकम् । प्रत्येकं लक्षणं चैषां प्रवक्ष्याम्यनुपूर्वशः ॥ उक्तानां ग्रामरागाणां छायामात्रं भजन्ति हि । गीतज्ञैः कथिताः सर्वे रागाङ्गास्तेन हेतुना ॥ भाषाछायाश्रिता येन जायन्ते सदृशाः किल । भाषाङ्गास्तेन कथ्यन्ते गायकैः स्तुतितत्परैः ॥
Scanned by Gitarth Ganga Research Institute