SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४५ चतुर्थः प्रबन्धाध्यायः धातू रागांशभेदेन मातोस्तु नवता भवेत् । प्रतिपाद्यविशेषेण रसालंकारभेदतः ॥ ३६३ ॥ लयग्रहविशेषेण तालानां नवता मता। तालविश्रामतोऽन्येन' विश्रामेण लयो नवः ॥ ३६४ ॥ छन्दोगणग्रहन्यासप्रबन्धावयवैर्नवैः। औडवापरपर्याया रचना नवतां व्रजेत् ॥ ३६५ ।। यामाह-रागः स्थायान्तरैरित्यादि। स्थाया रागस्यावयवाः। अन्ये स्थायाः स्थायान्तराणि । तैः रागो नवो भवति । पूर्वैः कृतरूपकगतरागापेक्षयेदानी क्रियमाणे रूपके स्थायान्तरैर्यथा -रागो नवो भवति तथा कर्तव्यमित्यर्थः । रागांशभेदेनेति । रागांशशब्देन 'रागान्तरस्यावयवो रागेंऽशः स च सप्तधा' इति पूर्वोक्ताः स्थायभेदका रागावयवविशेषा उच्यन्ते । तद्भेदेन पूर्वोक्तरीत्या धातुर्नवः कर्तव्य इत्यर्थः । मातोर्नवत्वे निमित्तद्वयं दर्शयतिप्रतिपाद्यविशेषेण रसालंकारभेदत इति । प्रतिपाद्यं नाम वस्तु ; वाक्यार्थ इत्यर्थः ; तद्भेदेन । रसाः शृङ्गारादयः ; अलंकारा अनुप्रासोपमादयः ; तेषां भेदेन च मातुर्नवः कर्तव्य इत्यर्थः । तालानां नवत्वे निमित्तमाह-लयग्रहेति । ल्या द्रुतमध्यविलम्बिताः ; ग्रहाः समातीतानागताः; तेषां विशेषेण । तालानां नवतेति । पूर्वगीतगतात्तालाद्भिन्नलयग्रहस्तालः कर्तव्य इत्यर्थः । लयस्य नवत्वे हेतुमाह-तालविश्रामत इति । तालस्यावयविनो विश्रामादन्येन विश्रामेणावयवविश्रामेण विपर्ययेण वा लयो नवो भवति । औडुवनवत्वे हेतुमाह -छन्दोगणेति । छन्दःप्रभृतीनि प्रागुक्तरूपाणि । औडवापरपर्यायेति । औडुवमित्यपरः पर्यायो यस्याः सा । एवंविधां रचनां कुर्यादित्यर्थः । 1 तुल्येनेति सुधाकरपाठः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy