________________
३४४
संगीतरत्नाकरः
रूपकप्रबन्धाः गुणान्वितं दोषहीनं नवं रूपकमुत्तमम् ॥ ३६१ ॥ रागेण धातुमातुभ्यां तथा ताललयोडुवैः।। मूतनै रूपकं नूनं रागः स्थायान्तरैनैवः ३६२॥
द्वयानन्तरं शीलः । द्रुतद्वयानन्तरं लघुगुरुभ्यां चारः। द्रुतद्वयानन्तरं गुरुणा मकरन्दः । द्रुतद्वयानन्तरं लघुना विजय इति । रासकं लक्षयति-रासक इति । रासतालेन गीयमानो रासकः । तस्य विनोदादयश्चत्वारो भेदाः । तेषां लक्षणमाह-आलापान्तेत्यादिना । ध्रुवपदस्यान्ते आलापो विरच्यते चेत्, विनोदः। ध्रुवस्य मध्य आलापश्चेत्, तदा वरदः। खण्डद्वययुक्तस्योद्गाहस्याचं खण्डमालापनिर्मितं चेत. तदा नन्दः । ध्रुवस्यादावालापश्चेत् , तदा कम्बुज इति । सर्वेश्वपि रासकेषूद्राहो द्विखण्डः कर्तव्यः । एकताली लक्षयति- एकतालीति । एकतालीनाम्ना तालेन विरच्यमाना एकताली । सा भेदत्रयवती-रमा, चन्द्रिका, विपुला चेति । तासां लक्षणमाह- सकृदिति । यस्यां यतिद्वयोक्त उद्गाहः सकृत् गीयते, ततोऽनन्तरमक्षररचितोऽन्तरः, सा रमा । यस्यां द्विखण्ड उदाहः, अन्तरश्वालापः क्रियते, सा चन्द्रिका । यस्यां तूगाहात् पूर्वमालापः क्रियते, सा विपुलेति । अत्राक्षरवर्जिता गमकालप्तिरेवालापः ; स एव प्रयोग इत्युच्यते ॥ ३१४-३६१ ॥
(क०) अथ रूपकस्योत्तमाद्यवान्तरभेदान् दर्शयिप्यन्नादावुत्तमं लक्षयति-गुणान्वितमित्यादि । गुणाः व्यक्त्यादयो वक्ष्यमाणा दश गीतगुणाः; तैरन्वितम् । दोषहीनमिति । दुष्टादयो वक्ष्यमाणा दश गीतदोषाः ; तैहीनं यन्नवं रूपकं तत् उत्तमित्युच्यते । रूपकस्य नवत्वे निमित्तं दर्शयतिरागेणेत्यादिना । ताललयोडुवैरिति । तालश्च लयश्चौडवं चेति द्वंद्वः । औडवशब्देनात्र रचनाविशेष उच्यते । नूतनरागादिनिर्मितत्वाद्रूपकं नवं भवती. त्यर्थः । रञ्जनादिधर्मयोगे सिद्धरूपाणां रागादीनां नुतनत्वं कथमित्याकाङ्क्षा
Scanned by Gitarth Ganga Research Institute