________________
चतुर्थः प्रबन्धाध्यायः
३४३ तालेन द्वाविंशत्यक्षरखण्डो विजयः । आदितालेन त्रयोविंशत्यक्षरखण्ड : कंदर्पः । क्रीडातालेन चतुर्विंशत्यक्षरखण्डो जयमङ्गलः । एकताल्या पञ्चविंशत्यक्षरखण्ड - स्तिलकः । प्रतिमण्ठेन तालेन षड्विंशत्यक्षरखण्डो ललित इति । अयं वर्णनियमः कस्मिन् खण्डे कर्तव्य इत्यपेक्षायां पक्षद्वयमाचष्टे - स्यादिति । क्रमेणैतेषां गाने फलमाह - यथोक्ता निति ; यथोक्तलक्षणलक्षितान् । मण्ठलक्षणमाह - द्वियतीति । उद्ग्राहखण्डं यतिद्वयसंयुक्तम्, एकयतिकं वा कर्तव्यम् | ततोऽनन्तरं वाख्यं खण्डं द्विर्गेयम् । ततः अन्तरो वैकल्पिकः; कर्तव्यो वा, न वा कर्तव्यः । पक्षे तं गीत्वा पुनरपि ध्रुवो गातव्यः । तत आभोगः सकृद्गीयते । वे च परिसमाप्तिः । एवंविधो मण्ठतालेन यो गीयते, स मण्ठः । तस्य भेदानाह--- जयप्रिय इति । जयप्रियादयः षड् भेदाः । षट्प्रकारो मण्ठताल इति । तेन रूपकं मण्ठाख्यप्रबन्धात् भिद्यते । एतेषां लक्षणमाह - वीर इत्यादिना । जगणरूपेण मण्ठेन गीयमानो जयप्रियः; वीरो रसः । भगणेन मङ्गलः ; शृङ्गारो रसः । सगणेन सुन्दरः । रगणेन वल्लभः । नगणेन विरामान्तेन कलापः । द्रुतद्वंद्वेन विरामान्तेन ध्रुवानन्तरं लघुना कमल इति । प्रतिमण्ठादिसाधारणं किंचिदाह – मण्ठवदिति । प्रतिमण्ठलक्षणमाह-- तत्रेति । प्रतिमण्ठेन तालेन गीयमानः प्रतिमण्ठः । तस्य अमरादयश्चत्वारो भेदाः । तेषां लक्षणमाह - अमर इति । एकेन गुरुणा गीयमानोऽमरः । विरामान्ते द्रुतद्रयानन्तरं लघुद्वयेन गीयमानस्तारः । विरामान्तेन लघुत्रयेण गीयमानो विचारः । विराममध्येन लघुत्रयेण गीयमानः कुन्द इति । निःसारुकं लक्षयतिबद्ध इति । निःसारुकतालेन विरच्यमानो निःसारुकः । तस्य वैकुन्दादयः षड् भेदाः । तान् लक्षयति — द्रुतद्वंद्वादिति । द्रुतद्वयेन लघुद्वयेन रचितो वैकुन्दः । विरामान्ते द्रुतद्वयेनानन्दः । तल्लोके रूपकमित्युच्यते । लघुगुरुभ्यां कान्तारः । विरामान्ते लघुयेन समरः । जम्बुनाल इत्युच्यते लोके । लघुत्रद्रुतद्वयेन वाञ्छितः । लघुद्रुतद्वयलघुभिर्विशाल इति । अड्डतालं लक्षयतिअड्डुतालेनेति । अड्डतालाख्येन तालेन गीयमानोऽडतालः । तस्य निःशङ्कादयः षड् भेदाः । तेषां लक्षणमाह - लगुरुभ्याभिव्यादिना । लघुगुरुभ्यामनन्तरं द्रुतद्वयेन गीयमानो निःशङ्कः । लघ्वनन्तरं द्रुतद्वयेन शङ्कः । विरामान्तेन द्रुत
1
Scanned by Gitarth Ganga Research Institute