________________
संगीतरत्नाकर:
आलाप पूर्वकोद्वाहा विपुलानन्ददायिनी । आलापो गमकालतिरक्षरैर्वर्जिता मता ॥ ३६० ॥ सैव प्रयोगशब्देन शार्ङ्गदेवेन कीर्तिता ।
इत्येकतालीप्रबन्धः । इति सालगसूडप्रबन्धाः ।
३४२
उद्ग्राहस्यालापरचितत्वमवगन्तव्यम् । एवम् ' आलापरचितोऽन्तरः' इत्यत्रापि ध्रुव एवान्तरशब्दवाच्यः । एते ध्रुवादयस्तालादिनियमान्निर्युक्ताः । पदतालबद्धत्वात् द्व्यङ्गाः । तारावलीजातिमन्तः ॥ ३१४-३६१ ॥
(सं०) सालगसूडप्रबन्धान् विभजते – आयो ध्रुव इति । ध्रुवादयः सप्त प्रबन्धाः । तेषु ध्रुवं लक्षयति - एकधात्विति । पूर्वे सदृश गेयखण्डद्वययुक्त उद्ब्राहः कर्तव्यः । ततोऽनन्तरं किंचिदुच्चं खण्डमन्तराख्यं कर्तव्यम् । एतत् त्रयमपि द्विरभ्यस्तं द्विर्गेयम् । ततोऽनन्तरं खण्डद्वययुक्त आभोगः । तस्य प्रथमं खण्डं सदृशगेयखण्डद्वययुक्तम् । द्वितीयखण्डं ततोऽप्युच्चं गातव्यम् | असावाभोग: स्तुत्यस्य नायकस्य नाम्ना युक्तः कार्यः । कचित् केषांचिन्मतेऽयमुच्चकखण्डो गातव्यः । उद्ग्राहस्य आद्यखण्डे च समाप्तिः ।
ध्रुव इति ज्ञेयः । तस्य भेदानाह – एकादशेति । एकादशाक्षरखण्डादारभ्य षड्विंशत्यक्षरखण्डपर्यन्तमेकै काक्षरवृद्धया जयन्तादयो ललितान्ता षोडशवा भवन्ति । तेषां क्रमेण लक्षणमाह - आदितालेनेति । आदितालेन एकादशाक्षरखण्डो जयन्तः । निःसारुतालेन द्वादशाक्षरखण्ड : शेखरः । प्रतिमण्ठतालेन त्रयोदशाक्षरखण्ड उत्साहः । हयलीलतालेन चतुर्दशाक्षरखण्डो मधुरः । क्रीडातालेन पञ्चदशाक्षरखण्डो निर्मलः । लघुशेखरतालेन षोडशाक्षरखण्ड : कुन्तलः । झम्पातालेन सप्तदशाक्षरखण्ड : कामलः । निःसारुताले नाष्टादशाक्षरखण्ड: चारः । एकताल्या एकोनविंशत्यक्षरखण्डो नन्दनः । प्रतिमण्ठतालेन विंशत्यक्षरखण्डश्चन्द्रशेखरः । प्रतिमण्ठेन तालेनैकविंशत्यक्षरखण्ड: कामोदः । द्वितीय
Scanned by Gitarth Ganga Research Institute