________________
चतुर्थ: प्रबन्धाध्यायः
३४१
रासकप्रबन्धः
रासको रासतालेन स चतुर्धा निरूपितः ।। ३५२ ॥ विनोदो वरदो नन्दः कम्बुजश्चेति शार्ङ्गिणा । आलापान्तध्रुवपदाद्विनोदः कौतुके भवेत् ॥ ३५३ ॥ ध्रुवादालापमध्यात्तु वरदो देवतास्तुतौ । खण्डमाद्यं द्विखण्डस्योद्ग्राहस्यालापनिर्मितम् ॥ ३५४ ॥ यस्यासौ रासको नन्दो गीयतेऽभ्युदयप्रदः । आलापादेर्ध्रुवपदात् कम्बुजः करुणे भवेत् ॥ ३५५ ।। सर्वेषु रासवेषु द्विखण्डोद्वाहकल्पना । इति रासकप्रबन्धः ।
एकतालीप्रबन्धः
एकताली भवेत्तालेनैकताल्या त्रिधा च सा ।। ३५६ ।। रमा च चन्द्रिका तद्वद्विपुलेत्यथ लक्षणम् । सकृद्विरतिरुद्वाहोऽन्तरस्त्वक्षरनिर्मितः ॥ ३५७ ॥ यस्यामसौरमासा च गातृश्रोत्रोः श्रिये भवेत् । उद्वाहो द्विदलो यस्यामालापरचितोऽन्तरः || ३५८ ।। घनता घनयतिर्घनानुप्रासयोगिनी । चन्द्रिका सैकताली स्याद् भूरिसौभाग्यदायिनी ॥ ३५९ ॥ पक्षे तेनान्तरेण सह चतुर्धातवः ; अनन्तरत्वपक्षे तु त्रिव एव । अयमन्तरो लौकिकैरुपान्तर इत्युच्यते । तथा तैर्ध्रुवखण्डस्यान्तरव्यपदेशः कृत इति मन्तव्यम् । क्वचित् ध्रुवखण्डस्यान्तरव्यपदेशो ग्रन्थकारेणापि कृतः ; यथात्रैकतालीलक्षणे ' सकृद्विरतिरुद्ग्राहोऽन्तरस्त्वक्षरनिर्मितः ' इत्यत्रोद्ग्राहानन्तरमन्तरग्रहणादन्तरशब्देन ध्रुवखण्ड एवोच्यत इति गम्यते । अत्रान्तरस्त्वित्यत्र तुशब्देन
Scanned by Gitarth Ganga Research Institute