________________
संगीतरत्नाकरः कान्तारो लगुरुभ्यां स्याद्विप्रलम्भे स गीयते । लघुद्वयाद्विरामान्तात् समरो वीरगोचरः ॥ ३४६ ॥ लघुत्रयाद् द्रुतद्वंद्वाद्वाञ्छितो वाञ्छितप्रदः। संभोगे स्याद्विशालाख्यो लाद् द्रुतद्वयतो लघोः॥३४७॥
इति निःसारुकप्रबन्धः।
अइतालप्रबन्धः अड्तालेन तालेनाडुतालः परिकीर्तितः । निःशङ्कशङ्कशीलाश्च चारोऽथ मकरन्दकः ॥ ३४८॥ विजयश्चेति स प्रोक्तः षोढा सोढलसूनुना। लगुरुभ्यां द्रुतद्वंद्वान्निःशङ्को विस्मये भवेत् ॥ ३४९ ॥ लघो१तद्वयेन स्याच्छङ्कः शृङ्गारवीरयोः। शान्ते शीलो विरामान्तद्रुतद्वंद्वाल्लघोर्भवेत् ॥ ३५० ॥ द्रुतद्वंद्वाल्लगाभ्यां स्याचारो वीरेऽद्भुते रसे । शृङ्गारे मकरन्दः स्याद् द्रुतद्वंद्वात् परे गुरौ ।। ३५१ ॥ विजयाख्यो रसे वीरे द्रुताभ्यां लघुना भवेत् ।
__इति अडतालप्रवन्धः।
द्रष्टव्यः । यत्र सोऽपि नास्ति, तत्राक्षरादेः संख्यानियमाभावान्नियमोक्तादृष्टफलस्याभाव एव, न तु दृष्टफलस्य जनरञ्जनादेरपि । तेन तेषां लोकपरिग्रहोऽप्युपपन्न एव । अनियताक्षररसतालयुक्तस्योद्ग्राहाद्यवयवसंनिवेशस्याविशिष्टत्वेन तेषामपि सलक्षणत्वात् ध्रुवव्यवहारो न हीयत एव । मण्ठादीनां च रसतालादिनियमाभावोऽप्येवं द्रष्टव्यः । एते ध्रुवादयः सप्तापि मेलापकाभावात् त्रिधातवः । मण्ठादयस्तु षडपि 'ततो वैकल्पिकोऽन्तरः' इति वचनेन सान्तरत्व
Scanned by Gitarth Ganga Research Institute