SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४६ संगीतरनाकरः रूपकं त्रिविधं ज्ञेयं परिवृत्तं पदान्तरम् । भञ्जनीसंश्रितं चेति शाहूदेवेन कीर्तितम् ।। ३६६ ॥ खल्लोत्तारानुसारौ तु रूपकेष्वधमौ मतौ । परिवृत्तरूपकम् . रूपकं पूर्वसंसिद्धं स्वस्थानेन नवेन यत् ॥ ३६७ ।। यद्वा रागेण तालेन कृतं तत् परिवृत्तकम् । यत्र स्थायिनि यत्स्थानं रूपकं रचितं पुरा ॥ ३६८।। तत् स्वस्थानं तदन्यत्त्वं 'स्थाय्यन्यपरिवर्तनम् । परिवृत्तं रागतालपरिवर्तभवं स्फुटम् ॥ ३६९ ॥ इति परिवृत्तरूपकम् । पदान्तररूपकम् तस्मिन्नेव रसे रागे ताले च रचितं भवेत् । मातुस्थायविचित्रत्वाद् गुणोदारं पदान्तरम् ॥ ३७० ॥ ___ इति पदान्तररूपकम् । भञ्जनीसंश्रितरूपकम केनापि रूपकं गीतं निजादन्येन धातुना । येन तस्यान्यधातुत्वाद्भञ्जनीसंश्रितं मतम् ।। ३७१ ॥ ___ इति भञ्जनीसंश्रितरूपकम् । अथ मध्यमरूपकभेदानाह-रूपकं त्रिविमित्यादि । खल्लोत्तारोऽनुसारश्चेति स्थाय्यैवेति आनन्दाश्रममुद्रितकोशपाठः। स्थाय्यन्यंति पाठोव्याख्यानुसारेणोहितः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy