________________
चतुर्थः प्रबन्धाध्यायः ऋद्धिसौभाग्यदो वीरे निःसारी शेखरो भवेत् । प्रतिमण्ठेन हास्ये स्यादुत्साहो वंशवृद्धिकृत् ।। ३२२ ॥ मधुरो भोगदो गेयः करुणे हयलीलया। क्रीडातालेन शृङ्गारे निर्मलस्तनुते प्रभाम् ।। ३२३ ॥ लघुशेखरतालेन कुन्तलोऽभीष्टदोऽद्भुते । कामलो विप्रलम्भे स्याज्झम्पातालेन सिद्धिदः ॥३२४॥ हर्षोत्कर्षप्रदश्चारो वीरे निःसारुतालतः। नन्दनो वीरशृङ्गार एकताल्येष्टसिद्धिदः॥ ३२५ ॥ वीरे हास्ये च शृङ्गारे प्रतिमण्ठेन गीयते । अभीष्टफलदः श्रोतृगातृणां चन्द्रशेखरः ॥ ३२६ ॥ प्रतिमण्ठेन शृङ्गारे कामोदोऽभीष्टकामदः। हास्ये द्वितीयतालेन विजयो नेतुरायुषे ।। ३२७ ।। हास्यशृङ्गारकरुणेष्वादितालेन गीयते । कंदो भोगदो नृणां श्रीसदाशिवसंमतः ।। ३२८ ॥ क्रीडातालेन शृङ्गारे वीरे च जयमङ्गलः। जयोत्साहप्रदः पुंसां ध्रुवकस्तिलकाभिधः ॥ ३२९ ॥ रसे वीरे च शृङ्गार एकताल्या प्रगीयते ।।
प्रतिमण्ठेन शृङ्गारे ललितः सर्वसिद्धये ॥ ३३० ॥ दीनामवयवसंनिवेशकृतो भेदो नास्त्येव ; ' तथाऽप्येषां विशेषस्तु प्रत्येक प्रतिपाद्यते' इति प्रतिज्ञाय 'तत्र च प्रतिमण्ठेन तालेन प्रतिमण्ठकम् । इत्यादिभिर्वचनैस्तालानामेवात्र भेदकत्वेनोपादानात् केवलानां रसानामत्र भेदकत्वं न विवक्षितमेव । एवं स्थिते सति मण्ठभेदस्य कलापस्य ताल: 'कलापो नगणेन तु विरामान्तेन ' इत्युक्तः । तथा प्रतिमण्ठभेदस्य विचारस्यापि तालः
Scanned by Gitarth Ganga Research Institute