________________
संगीतरत्नाकरः
स्याद्वर्णनियमः सर्वखण्डे खण्डद्वये तथा । यथोक्तान् यो जयन्तादीन् गायेन्निपुणया धिया ॥ ३३१ ॥ सर्वक्रतुफलं तस्येत्यवोचन्मुनिसत्तमः ।
इति ध्रुवप्रबन्धः ।
मण्ठ प्रबन्धः
३३८
द्वित्येक विरामं वा यस्योद्राहाख्यखण्डकम् ॥ ३३२ ॥ ततः खण्डं ध्रुवाख्यं द्विस्ततो वैकल्पिकोऽन्तरः । तं गत्वा ध्रुवमागत्य वाभोगो गीयते सकृत् ॥ ३३३ ॥ ध्रुवे न्यासस्ततः प्रोक्तः स मण्ठो मण्ठतालतः । जयप्रियो मङ्गलश्च सुन्दरो वल्लभस्तथा ॥ ३३४ ॥ कलापः कमलश्चेति षड् भेदा मण्ठके मताः । षट्कारो मण्ठतालो रूपकं तेन भिद्यते ॥ ३३५ ॥ वीरे जयप्रियो गेयो मण्ठेन जगणात्मना । मङ्गलो भेन शृङ्गारे सुन्दरः सेन तद्रसे ॥ ३३६ ॥ वल्लभो रेण करुणे कलापो नगणेन तु 1 विरामान्तेन गातव्यो रसे हास्ये विचक्षणैः ॥ ३३७ ॥ विरामान्तद्रुतद्वंद्वाल्लघुना कमलोद्भुते ।
इति मण्ठप्रबन्धः ।
'लघुत्रयाद्विरामान्ताद्विचारः' इत्युक्तः । अत एव तयोर्लक्षणयोः शब्दभेद एव, न त्वर्थभेदः। तेन मण्ठप्रतिमण्ठयोस्तायोरत्रार्थ पौनरुक्त्यं दोष इति चेत्; सत्यम् । अत्यल्पमिदमुच्यते द्वयोस्ताल्योः पौनरुक्त्यं दोष इति । किंतु उत्तरस्मिन्नध्याये विंशत्यधिकशतेषु देशीतालेषु लक्षितेषु तत्र सागसूडाश्रयैः कैश्चिदन्यैस्तालैः सह केषांचिह्ननां तालानां द्वयोर्द्वयोस्त्रयाणां त्रयाणां च मिथः
Scanned by Gitarth Ganga Research Institute