________________
३३६
संगीतरत्नाकरः
आयो ध्रुवस्ततो मण्ठप्रतिमण्ठनिसारुकाः । अड्डतालस्ततो रास एकतालीत्यसौ मतः ॥ ३१४ ॥
ध्रुवप्रबन्धः
'एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्राहस्ततः परम् । किंचिदुचं भवेत् खण्डं द्विरभ्यस्तमिदं त्रयम् ॥ ३९५ ॥ ततो द्विखण्ड आभोगस्तस्य स्यात् खण्डमादिमम् । एकधातु द्विखण्डं च खण्डमुच्चतरं परम् ॥ ३९६ ॥ स्तुत्यनामाङ्कितश्चासौ कचिदुच्चकखण्डकः । उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको भवेत् ॥ ३१७॥ एकादशाक्षरात् खण्डादेकै काक्षरवर्धितैः । खण्डे ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥ ३१८ ॥ जयन्तशेखरोत्साहास्ततो मधुरनिर्मलौ । कुन्तलः कामलश्चारो नन्दनश्चन्द्रशेखरः || ३१९ ॥ कामोदो विजयाख्यश्च कंदर्पजयमङ्गलौ । तिलको ललितश्चेति संज्ञाचैषां क्रमादिमाः ॥ ३२० ॥ आदितालेन शृङ्गारे जयन्तो गीयते बुधैः । स नेतृश्रोतॄगातृणामायुः श्रीवर्धनो मतः ॥ ३२१ ॥
(क०) सालगसूडस्थानि गीतान्युद्दिशति - आद्यो ध्रुव इत्यादि । असाविति सालगसूडः । मतः संमतः । सभेदानां ध्रुवादीनां लक्षणानि स्पष्टार्थानि ।
ननु – ' मण्ठवत् प्रतिमण्ठादेर्लक्ष्मोद्ग्राहादिकं मतम्' इति वचनेन प्रतिमण्ठादिषूद्ग्राहाद्यवयवसंनिवेशस्य मण्ठवदित्यतिदेशात् मण्ठात् प्रतिमण्ठा
1 एकधातुद्विखण्ड इति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute