________________
चतुर्थः प्रबन्धाध्यायः छायालगत्वमेलादेर्यद्यप्याचार्यसंमतम् । लोके तथापि शुद्धोऽसौ शुद्धसादृश्यतो मतः ॥ ३१२ ॥ 'जात्याद्यन्तरभाषान्तं शुद्धं प्रकरणान्वितम् ।।
तत्रोक्तः शुद्धसूडः प्राक् सालगस्त्वधुनोच्यते ॥ ३१३॥ वक्ष्यमाणैकतालीपर्यन्तं सप्तभिगीतैः सालगसूडोऽभिमतः । सालग इति छायालगशब्दस्यापभ्रंशो लोकप्रसिद्धया प्रयुक्त इति वेदितव्यम् । ननु जात्यादेरेव शुद्धत्वम् ; एलादेस्तु तच्छायानुकारित्वात् सालगत्वमेव ; तत् कथमेलादिः शुद्ध इत्युक्तमित्यत आह—छायालगत्वमेलादेरित्यादि । शुद्धसादृश्यत इति । शुद्धस्य जात्यादेः सादृश्यतो नियमानतिलङ्घनादित्यर्थः । अतः शुद्धत्वमौपचारिकमेलादेः। ध्रुवादेस्तु नियमातिलङ्घनात् सर्वथा सालगत्वमेवेति भावः । जात्याद्यन्तरभाषान्तमिति । जातिकपालकम्बलगीतिग्रामरागोपरागभाषाविभाषान्तरभाषापर्यन्तमित्यर्थः । प्रकरणान्विमिति। तालाध्याये वक्ष्यमाणानि मन्द्रकादिचतुर्दशगीतानि प्रकरणानीत्युच्यन्ते । तान्यपि नियमानतिलङ्घनेनैव प्रवर्तितत्वात् शुद्धेऽन्तर्भूतानीत्यर्थः ॥ ३११-३१३ ॥
(सं०) सालगसूडं लक्षयितुमाह-शुद्ध इति । सूडो द्विविधः-शुद्धः, छायालगश्चेति । तत्रैलादिः शुद्धः; ध्रुवादिः सालगः । सालगछायालगौ पर्यायौ । ननु भरतेनैलादीनां छायालगत्वमुक्तम् ; तत् कथं शुद्धत्वमुच्यते ? तत्राहछायालगत्वमिति । शुद्धसादृश्येनैव शुद्धत्वम् ; न तु मुख्यं शुद्धत्वमित्यर्थः । किं तच्छुद्धम् , यत्सादृश्यमेलादे: ? तत्राह-श्रुत्यादीति । श्रुतिप्रकरणमारभ्यान्तरभाषापर्यन्तं यदुक्तं तत् | प्रकरणानि च तालाध्याये वक्ष्यमाणानि चतुर्दश गीतानि । एतावत् शुद्धम् । अनेन सह एलादेः सादृश्यमनियतत्वं सम्यक्प्रयोगे फलम् ; असम्यक्प्रयोगे दोष इत्यादि ज्ञातव्यम् ॥ ३११-३१३ ॥
1 श्रुत्यादीति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute