________________
संगीतरत्नाकर:
अनुक्ताभोगवस्तूनां पदैराभोगकल्पना । ओव्यादयस्तु चत्वारो भवन्त्या भोगवर्जिताः ॥ ३१० ॥ इति विप्रकीर्णप्रबन्धाः ।
३३४
सालगसूडप्रबन्धानिरूपणम्
शुद्धश्छायालगश्चेति द्विविधः सूड उच्यते । एलादिः शुद्ध इत्युक्तो ध्रुवादिः सालगो मतः ॥ ३११ ॥ तालाद्यनियमाच्चत्वारोऽप्यनिर्युक्ताः । पदतालबद्धत्वात् द्व्यङ्गाः । तारावलीजातिमन्तः ॥ ३०४-३१० ॥
(सं०) ओर्वी लक्षयति-खण्डत्रयमिति । देशभाषया अनुप्रासेन च खण्डत्रयोपेतमन्ते ओवीति पदं गीयते चेत्, तदा ओवी । एतस्याश्चरणावृत्तिभेदेन पदे पदे आदौ मध्ये अन्ते चानुप्रासभेदैश्च बहवो भेदा भवन्ति । एताश्च बहुभिश्छन्दोभिर्गेया: । लोलीं लक्षयति--सानुप्रासैरिति । ओवीलक्षणे ओवीपदस्थाने लोलीपदं प्रयुज्यते चेत्, तदा लोली । ढोल्लरीं लक्षयति- दोहड इति । पूर्वलक्षिते दोहडे प्रान्ते ढोल्लरीपदं गीयते चेत्, तदा ढोल्लरी । सा लाटभाषया गेया । दन्तीं लक्षयति - अनुप्रासेति । सानुप्रासं खण्डत्रयस्य प्रान्ते दीपदप्रक्षेपे दन्ती । साधारणं लक्षणमाह - अनुक्तेति । येषु प्रबन्धेष्वाभोगो नोक्तः, तत्र पंदेराभोगो ज्ञातव्य: । ओव्यादिषु चतुर्षु प्रबन्धेषु नास्त्याभोगः ॥ ३०४-३१०
(क० ) अथाध्यायादावुद्दिष्टं सागसूडं लक्षयितुं संगतिं दर्शयतिशुद्ध इत्यादि । शुद्धः शास्त्रोक्तनियमेन प्रवर्तितः । छायालगः ; छायां शुद्धसादृश्यं लगति गच्छतीति तथोक्तः । एलादिरिति । एलामारभ्यैकताली - पर्यन्तमष्टभिर्गतैः शुद्धसूड इत्युक्तः । ध्रुवादिरिति । वक्ष्यमाणं ध्रुवमारभ्य
Scanned by Gitarth Ganga Research Institute