________________
रागाङ्गादिनिर्णयाख्यं द्वितीयं प्रकरणम्
अथ रागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गनिर्णयम् । केषांचिन्मतमाश्रित्य कुरुते सोढलात्मजः ॥ १ ॥ रञ्जनाद्रागता भाषारागाङ्गादेरपीष्यते । देशीरागतया प्रोक्तं रागाङ्गादिचतुष्टयम् ॥ २॥
(क०) रागाङ्गादिशब्दानां निरुक्तिर्मतङ्गोक्ता द्रष्टव्या । यथा"ग्रामोक्तानां तु रागाणां छायामात्रं भवेदिति । गीतज्ञैः कथिताः सर्वे रागाङ्गास्तेन हेतुना ॥ भाषाछायाश्रिता येन जायन्ते सदृशाः किल । भाषाङ्गास्तेन कथ्यन्ते गायकैः स्तौतिकादिभिः ।। करुणोत्साहशोकादिप्रभवा या क्रिया ततः ।
जायन्ते च यतो नाम क्रियाङ्गाः कारणात्ततः ॥" इति । मतङ्गेनोपाङ्गानि रागाङ्गादिप्वेवान्त वितानि । ग्रन्थकारेण पुनस्तेषां पृथगुद्देशो मतान्तरानुसारेण कृत इति मन्तव्यम् । अङ्गच्छायानुकारित्वात्तेषामुपाङ्गत्वं च । रागाङ्गादिचतुष्टयं देशीरागतया प्रोक्तमिति । देशीत्वं नाम कामचारप्रवर्तितत्वम् ।
" तदत्र मार्गरागेषु नियमो यः पुरोदितः ।
स देशीरागभाषादावन्यथापि क्वचिद्भवेत् ।।" इति ॥ १, २॥
Scanned by Gitarth Ganga Research Institute