________________
संगीतरनाकरः
यथासंभवं भाषाविभाषान्तरभाषाणां जनका इत्यर्थः । तत्र कः किं भाषादि जनयतीत्यत आह-भाषाश्चतस्र इति । सौवीरे-सौवीर्यादयो गान्धार्यन्ताश्चतस्रो भाषाः । ककुभे-भिन्नपञ्चम्याद्याः शकमिश्रान्ताः षड् भाषाः; भोगवर्धन्याभीरिकामधुकर्यस्तिस्रो विभाषा: ; शालवाहनिकैकान्तरभाषा | टक्के-वण्यादयो वेसर्यन्ता एकविंशतिर्भाषा: ; देवारवर्धन्यादयो भावन्यन्ताश्चतस्रो विभाषाः । पञ्चमे-कैशिक्यादयो भावन्यन्ता दश भाषा: ; भम्माण्यान्धालिके द्वे विभाषे । भिन्नपञ्चमे-धैवतभूषितादयो विशालान्ताश्चतस्रो भाषा:; कौशलीत्येका विभाषा । टक्ककैशिके–मालवाभिन्नवलिते द्वे भाषे; द्राविडयेका विभाषा । प्रेक्षके हिन्दोले-वेसर्यादयः पिञ्जर्यन्ता नव भाषाः । बोट्टे-माङ्गल्येका भाषा । मालवकैशिके-बाङ्गाल्यादय आभीरिकान्तात्रयोदश भाषाः; काम्भोजीदेवारवर्धन्यौ द्वे विभाषे । गान्धारपञ्चमे-गान्धार्यकैव भाषा | भिन्नषडजेगान्धारवल्लयादयः सैन्धव्यन्ता: सप्तदश भाषाः ; पौराल्यादयो देवारवर्धन्यन्ताश्चतस्रो विभाषाः । वेसरषाडवे-नाद्या बाह्यषाडवेति द्वे भाषे; पार्वती श्रीकण्ठीति द्वे विभाषे। मालवपञ्चमे-वेदवतीभावनीविभावन्यस्तिस्रो भाषाः । ताने-तानोद्भवैका भाषा । पञ्चमषाडवे-पोतैका भाषा। रेवगुप्ते-शकेत्येका भाषा; पल्लवीत्येका विभाषा ; भासवलिता किरणावली शकवलितेत्येतास्तिस्रोऽन्तरभाषाः। पल्लव्यादयश्चतस्रो बृहद्देश्यां जनकेन विनैव मतङ्गेनोक्ताः । एवं भाषाः षण्णवतिः । विभाषा विंशतिः । अन्तरभाषाश्चतस्त्रः । भाषायाश्चातुर्विध्यं कथयति-भाषेति । मुख्या स्वराख्या देशाख्योपरागजेति भाषाश्चतुविधाः । तत्र यान्यं नोपजीवति सा मुख्या । या स्वरनाम्ना जायते सा स्वराख्या गान्धार्यादिः । या देशनाम्ना जायते सा देशाख्यान्ध्यूदिः । या ताभ्यस्तिसृभ्यो जायते सान्योपरागजा । एता एव चतस्रः संकीर्णा देशजा मूला छायामात्रेति नामभिर्याष्टिकेनोक्ताः । एता एव विभजते-शुद्धति । अन्यासां लक्षणं प्रकटम् । कासांचिद्भाषाणां लक्षणतो भिन्नानामपि नामसाम्यं विद्यत इति ॥ १९-४७ ॥
इति प्रथमं प्रकरणम्
Scanned by Gitarth Ganga Research Institute