________________
१]
द्वितीय रागविवेकाध्यायः
शकाद्या वलितेत्येतास्तिस्रस्त्वन्तरभाषिकाः । चतस्रोऽनुक्तजनका बृहद्देश्यामिमाः स्मृताः ॥ ४२ ॥ एवं षण्णवतिर्भाषा विभाषा विंशतिस्तथा । चतस्रोऽन्तरभाषाः स्युः शार्ङ्गदेवस्य संमताः ॥ ४३ ॥ भाषा मुख्या खराख्या च देशाख्या चोपरागजा । चतुर्विधा मतङ्गोक्ता ; मुख्यानन्योपजीवनी ॥ ४४ ॥ स्वरदेशाख्यया ख्याता स्वराख्या देशजा क्रमात् । अन्योपरागजा ताभ्यो याष्टिकेनोदिताः पुनः ॥ ४५ ॥ संकीर्णा देशजा मूला छायामात्रेति नामभिः । शुद्धाभीरी रगन्ती च त्रिधा मालववेसरी ॥ ४६ ॥ मुख्याः षडिति शेषाः स्युर्विज्ञेयाः स्फुटलक्षणाः । नामसाम्यं तु कासांचिद् भिन्नानामपि लक्ष्मतः ॥४७॥ इति द्वितीये रागविवेकाध्याये ग्रामरागोपरागरागभाषाविभाषान्तरभाषाविवेकाख्यं प्रथमं प्रकरणम्
१३
मङ्गीकृत्यान्य आचार्याः शकां तद्भाषामुक्तवन्त इत्यर्थः । चतस्रोऽनुक्तजनका इति । पल्लवीप्रभृतयश्चतस्त्रः । अनन्योपजीवनी मुख्या । अन्योपजीवित्वं स्वरदेशापेक्षया प्रवर्तमानत्वम् । तेन विना स्वातन्त्र्येण प्रवर्तमानात्र मुख्या । ताभ्यो मुख्यास्वराख्यादेशान्याभ्योऽन्या विलक्षणोपरागजेति ज्ञेया । मुख्यादीनामेव मतङ्गोक्तानां याष्टिकक्तानि संज्ञान्तराणि; यथा— मूलेति मुख्या, संकीर्णेति स्वराख्या, देशजेति देशाख्या, छायामात्रेत्युपरागजा ॥ १९-४७॥ इति प्रथमं प्रकरणम्
(सं०) भाषाजनकान्पञ्चदश रागान्कथयति - सौवीर इति । टक्ककैशिक इत्येकं नाम । मालवः पश्चमान्तो मालवपञ्चमः । भाषाणामिति ।
Scanned by Gitarth Ganga Research Institute