________________
संगीतरत्नाकरः
[ प्रकरणम्
भाषाः स्युर्वेसरी चूतमञ्जरी षड्जमध्यमा ॥ ३१ ॥ मधुरी भिन्नपौराली गौडी मालववेसरी। छेवाटी पिञ्जरीत्येका बोहे भाषा तु माङ्गली ॥ ३२ ॥ बाङ्गाली माङ्गली हर्षपुरी मालववेसरी। खञ्जनी गुर्जरी गौडी पौराली चार्धवेसरी ॥ ३३ ॥ शुद्धा मालवरूपा च सैन्धव्याभीरिकेत्यमूः । भाषास्त्रयोदश ज्ञेया विज्ञैर्मालवकैशिके ॥ ३४ ॥ विभाषे द्वे तु काम्भोजी तद्वद्देवारवर्धनी । गान्धरपञ्चमे भाषा गान्धारी ; भिन्नषड्जके ॥ ३५ ॥ गान्धारवल्ली कच्छेल्ली स्वरवल्ली निषादिनी । त्रवणा मध्यमा शुद्धा दाक्षिणात्या पुलिन्दका ॥ ३६ ॥ तुम्बुरा षड्जभाषा च कालिन्दी ललिता ततः । श्रीकण्ठिका च बाङ्गाली गान्धारी सैन्धवीत्यमूः ॥ ३७ ॥ भाषाः सप्तदश ज्ञेयाश्चतस्रस्तु विभाषिकाः । पौराली मालवा कालिन्द्यपि देवारवर्धनी ॥ ३८ ॥ वेसरे षाडवे भाषे द्वे नाद्या बाह्यषाडवा । विभाषे पार्वती श्रीकण्ठयथ मालवपञ्चमे ॥ ३९ ॥ भाषास्तिस्रो वेदवती भावनी च विभावनी । ताने तानोद्भवा भाषा; भाषा पञ्चमषाडवे ॥ ४० ॥ पोता; भाषां शकामेके रेवगुप्ते विदुर्विदः । विभाषा पल्लवी, भासवलिता किरणावली ॥ ४१ ॥
१२
चेति द्वंद्वः। प्रेङ्खक इति हिन्दोलपर्यायः । एके रेवगुप्ते विदुर्विद इति । उक्तमतानुसारेण रेवगुप्तस्य भाषाजनकेष्वपरिगणनेऽपि तस्यापि भाषाजनकत्व
Scanned by Gitarth Ganga Research Institute