________________
द्वितीयो रागविवेकाध्यायः आभीरिका मधुकरी, तथैकान्तरभाषिका ॥ २३ ॥ शालवाहनिका; टके त्रवणा त्रवणोद्भवा। वैरञ्जी मध्यमग्रामदेहा मालववेसरी ।। २४ ॥ छेवाटी सैन्धवी कोलाहला पञ्चमलक्षिता। सौराष्टी पञ्चमी वेगरञ्जी गान्धारपश्चमी ॥ २५ ॥ मालवी तानवलिता ललिता रविचन्द्रिका। तानाम्बाहेरिका दोह्या वेसरीत्येकविंशतिः ।। २६ ॥ भाषाः स्युरथ देवारवर्धन्यान्ध्री च गुर्जरी । भावनीति विभाषाः स्युश्चतस्रः; पञ्चमे पुनः ॥२७॥ कैशिकी त्रावणी तानोद्भवाभीरी च गुर्जरी । सैन्धवी दाक्षिणात्यान्धी माङ्गली भावनी दश ।। २८॥ इति भाषा विभाषे द्वे भम्माण्यान्धालिके ततः। चतस्रः पञ्चमे भिन्ने भाषा धैवतभूषिता ।। २९ ।। शद्धभिन्ना च वाराटी विशालेत्यथ कौशली।। विभाषा; मालवाभिन्नवलिते टककैशिके ॥ ३०॥ भाषे द्वे, द्राविडीत्येका विभाषा%; प्रेक्षके नव ।
भाषाशब्दावपि तत्तदनन्तरोत्पन्नालापप्रकारवाचकावित्यवगन्तव्यम् । तासामपि रञ्जनाद्रागत्वं च बोद्धव्यम् । तथा च वक्ष्यति-----' रञ्जनाद्रागता भाषारागाङ्गादेरपीप्यते' इति । तासां जनका याष्टिकोदिताः ; भाषाजनकतया याप्टिकमुनिनोक्ताः । मतान्तराणामप्यत्रैवान्तर्भावाद्याष्टिकमतानुसारेणोद्दिश्यन्त इत्यर्थः । कथम् ? मतङ्गः षडेव ग्रामरागाभाषाजनकत्वेनाभाषत । काश्यपस्तु द्वादशैवावोचत् । शार्दूल: पुनश्चतुर एवाभ्यधादिति । ताना अम्बाहेरिकेति विभागः । मालवाभिन्नलिते इति । मालवा च निन्नवलिता
Scanned by Gitarth Ganga Research Institute