________________
संगीतग्नाकरः
[प्रकरणम्
भाषाजनकरागाः सौवीरः ककुभष्टकः पश्चमो भिन्नपश्चमः। टक्ककैशिकहिन्दोलबोहमालवकैशिकाः ।। १९ ।। गान्धारपश्चमो भिन्नषड्जो वेसरषाडवः। मालवः पश्चमान्तश्च तानः पश्चमषाडवः ॥ २० ॥ भाषाणां जनकाः पञ्चदशैते याष्टिकोदिताः ।
भाषाः, विभाषाः, अन्तरभाषाः भाषाश्चतस्रः सौवीरे सौवीरी वेगमध्यमा ।। २१ ।। साधारिता च गान्धारी; ककुभे भिन्नपञ्चमी। काम्भोजी मध्यमग्रामा रगन्ती मधुरी तथा ॥ २२ ॥
शकमिश्रेति षट् , तिस्रो विभाषा भोगवर्धनी । स्तिलकः शकतिलक इत्यर्थः । बङ्गालाविति द्वौ रागौ। भासमध्यमपाडवाविति । भासश्च मध्यमषाडवश्चेति द्वंद्वः । कामोदाविति द्वौ । ककुभान्तश्च कैशिक इति । ककुभशब्दान्तः कैशिकः कैशिकककुभ इत्येकः । रागा इति । उपरागेभ्योऽनन्तरं जातिभ्य एव जाताः श्रीरागादयो विंशतिः निरुपपदरागव्यपदेशभाजः ॥ १५-१८ ॥
(सं०) उपरागान्विभजते- अष्टोपरागा इति । शकादिस्तिलकः शकतिलकः । रागान्विभजते- श्रीरागेति । बङ्गालद्वयम् , कामोदद्वयम् । एतावता विंशतिसंख्या पूर्यते ॥ १५-१८ ॥
(क) एते सौवीरादयः पञ्चदश ग्रामरागाः । भाषाणाम् । भाषा ग्रामरागालापप्रकारः । तथाचाह मतङ्गः- "ग्रामरागाणामेवालापप्रकारा भाषावाच्याः । भाषाशब्दोऽत्र प्रकारवाची" इति । एवं विभाषान्तर
Scanned by Gitarth Ganga Research Institute