SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रबन्धाध्यायः चर्याप्रबन्धः ३२७ पद्धडीप्रभृतिच्छन्दाः पादान्तप्रासशोभिता ॥ २९२ ॥ अध्यात्मगोचरा चर्या स्याद् द्वितीयादितालतः । सा द्विधा छन्दसः पूर्त्या पूर्णापूर्णात्वपूर्तितः ॥ २९३ ॥ समधुवा च विषमधुवेत्येषा पुनर्द्विधा । धेति । इयमेव चच्चरी यदा छन्दोऽन्तरेण गीयते, तदा छन्दः शास्त्रोक्ततत्तच्छन्दोनाम्ना व्यपदिश्यत इत्यर्थः । अत्र पूर्वार्धमुद्ग्राहः । उत्तरार्धं ध्रुवः । पृथक्पदैराभोगः । अतोऽयं त्रिधातुः । छन्दस्तालनियमान्निर्युक्तः । पदतालबद्धत्वात् द्व्यङ्गः । तारावलीजातिमान् ॥ २९०-२९२ ॥ (सं०) चचरी लक्षयति- राग इति । पूर्वोक्तो हिन्दोलो रागः । 'विरामान्तद्रुतद्वद्वान्यष्टौ लघु च चच्चरी' इति वक्ष्यमाणश्चच्चरीताल: । षोडशमात्रा बहवः पादाः । तेषु द्वौ द्वौ पादावनुप्राससंयुक्तौ । सा चञ्चरी । प्राकृतैः देशभाषोपनिबद्धैः पदैः कृता । वसन्तोत्सवे गेया । मतान्तरमाह - चञ्चरीति । चच्चरीनाम्ना छन्दसा गेयेयमिति केचिदाहुः । केचित्तु क्रीडातालेन गेयेत्याहु: ; अथवा घत्तायत्यादिच्छन्दसा | छन्दोलक्षणे उदिता अभिधा यस्याः ; येन छन्दसा गीयते तन्नामवती भवतीत्यर्थः ॥ २९० - २९२॥ (क० ) अथ चर्यां लक्षयति-- पद्धडीत्यादिना । पद्धडीप्रभृतिच्छन्दा इति । पद्धडीप्रभृतीनि छन्दांसि यस्याः सा ; पद्धडीप्रभृतिषु छन्दःस्वेकेन बद्धेत्यर्थः । पद्धडीछन्दोलक्षणमनन्तरमेव वक्ष्यते । अध्यात्मगोचरेति । अध्यात्मं विषयीकृत्य प्रवृत्तेत्यर्थः । द्वितीयादितालत इति । ' दौ लो द्वितीयकः' इति द्वितीयतालस्य लक्षणं वक्ष्यते । आदिशब्देन तत्सममात्रोऽन्योऽपि तालो गृह्यते । समधुचेति । समो ध्रुवो यस्या इति बहुव्रीहिः । समशब्दस्य सापेक्षत्वादत्र प्रत्यासत्त्योद्ग्राह एवापेक्ष्यते । तेन 1 Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy