________________
३२८
संगीतरत्नाकरः आवृत्त्या सर्वपादानां गीयते सा ध्रुवस्य वा ।। २९४ ॥
इति चर्याप्रबन्धः ।
पद्धडीप्रबन्धः 'चरणान्तसमप्रासा पद्धडीच्छन्दसा युता। बिरुदैः स्वरपाटान्तै रचिता पद्धडी मता ॥ २९५ ॥
इति पद्धडीप्रबन्धः। ध्रुवस्योद्ग्राहसमत्वमवगम्यते । एवं विपमध्रुवेत्यत्रापि ध्रुवस्योद्ग्राहापेक्षया न्यूनत्वेन वाधिकत्वेन वा विषमत्वं द्रष्टव्यम् । आभोगः पृथक्पदैः कर्तव्यः । तेनायं त्रिधातुः । छन्दस्तालनियमान्नियुक्तः । पदतालबद्धत्वात् द्वयङ्गः । तारावलीजातिमान् ॥ २९२-२९४ ।।
(सं०) चर्या लक्षयति-पद्धडीति । पद्धडीराहडीमुख्यानि छन्दांसि यस्याम् ; पादानामन्तोऽनुप्रासयुक्तः ; अध्यात्मवाचकैः पदैरुपनिबद्धा ; सा चर्या । द्वितीयादितालैः सा कर्तव्या। तृतीयाबहुवचनार्थ तसिल्प्रत्ययः । सा द्विप्रकाराछन्द:पूर्ती पूर्णा ; अपूर्तावपूर्णा । पुनरपि द्विधा--सर्वेषां पादानामावृत्तौसमध्रुवा; ध्रुवस्यैवावृत्तौ विपमधुवेति ॥ २९२-२९४ ॥
(क०) अथ पद्धडी लक्षयति-चरणान्तेत्यादि । चरणान्तेषु पादान्तेषु सम एकरूपः प्रासो वर्णावृत्तिर्यस्याः सा । पद्धडीच्छन्दसेति ।
" षोडश मात्राः पादे पादे यत्र भवन्ति निरस्तविवादे ।
पद्धडिका जगणेन विमुक्ता चरमगुरुः सा सद्धिरिहोक्ता ॥" इति तस्य लक्षणमुदाहरणं च । तेन छन्दसा युक्ता । स्वरपाटान्तैविरुदैः रचितेति । प्रथमाधैं बिस्दैः रचयित्वा स्वरान् प्रयुञ्जीत । द्वितीयार्धमपि
1 युग्मपादान्तगप्रासा इति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute