________________
३२६
संगीतरत्नाकरः
चच्चरीप्रबन्धः रागो हिन्दोलकस्तालश्चच्चरी बहवोऽज्रयः । यस्यां षोडशमात्राः स्युद्वौ द्वौ च प्राससंयुतौ ॥२९०॥ सा वसन्तोत्सवे गेया चचरी प्राकृतैः पदैः। चचरीच्छन्दसेत्यन्ये क्रीडातालेन वेत्यपि ॥ २९१ ॥ घत्तादिच्छन्दसा वा स्याच्छन्दोलक्ष्मोदिताभिधा।
इति चच्चरीप्रबन्धः । युतोऽन्तरो यस्मिन्निति वदनविशेषणम् । सुगममन्यत् । अत्र पदान्तरैराभोगः कर्तव्यः । तेनायं त्रिधातुः । छन्दस्तालाद्यनियमादनियुक्तः । बिरुदतेनकहीनत्वात चतुरङ्गः । दीपनीजातिमान् ॥ २८८, २८९ ।।
___(सं०) वदनं लक्षयति-छपद्वयमिति । छाण: पूर्व, ततश्च पद्वयं, ततोऽनन्तरं दो दगण: ; एतैः स्वरैः पाटर्युक्तमन्तरं मध्यप्रदेशो यस्य तत् वदनम्। तदेव छगणचगणदगणतगणैर्युतमुपवदनम् । तथैव स्वरपाटविरचितं छाणद्वयेन दगणचगणतगणैः कृतं चेत् वस्तुवदनमित्युच्यते । षण्मात्रो गणश्छगण:, चतुर्मात्रश्चः, त्रिमात्रस्त:, द्विमात्रो द इति पूर्वोक्तमनुसंधेयम् ॥ २८८, २८९ ॥
(क०) अथ चच्चरी लक्षयति-राग इत्यादि । चच्चरी ताल इति । 'विरामान्तद्रुतद्वंद्वान्यष्टौ लवु च चच्चरी' इति तस्य लक्षणं वक्ष्यते । यस्यां चच्चयाँ पोडशमात्रा बहवोऽज्रयः स्युः । तत्र द्वौ द्वौ पादौ प्रासयुतौ भवतः । चचरीच्छन्दसेति । षोडशमात्रात्मकपादयुक्तं चच्चरीच्छन्दः अवगन्तव्यम् । क्रीडातालेन वेति । 'क्रीडा द्रुतौ विरामान्तौ' इति तस्य लक्षणं वक्ष्यते । घत्तादिच्छन्दसा वेति । यदा क्रीडातालेन प्रयुज्यते, तदा धत्तादिच्छन्दः प्रयोक्तव्यमित्यर्थः । तत्रादिशब्देन यत् क्रीडातालप्रयोगयोग्यं तत् छन्दो गृह्यते । घत्ताच्छन्दोऽपि तादृशमवगन्तव्यम् । छन्दोलक्ष्मोदिताभि
Scanned by Gitarth Ganga Research Institute