________________
चतुर्थः प्रबन्धाध्यायः तालमानद्वयन्यासो निःशङ्केन प्रकीर्तितः ॥ २८७ ॥
इति श्रीवर्धनप्रबन्धः।
हर्षवर्धनप्रबन्धः पदैश्च विरुदैहर्षवर्धनः स्वरपाटकः ।
इति हर्षवर्धनप्रबन्धः।
वदनप्रबन्धः छपद्वयं दो वदनं स्वरपाटयुतान्तरम् ॥ २८८ ।। तथोपवदनं प्रोक्तं छगणाचदतैर्युतम् । तथैव वस्तुवदनं छयुगाद्दचतैः कृतम् ॥ २८९ ॥
इति वदनप्रबन्धः। पाटाभ्यामुग्राहः । पदस्वराभ्यां ध्रुवः । सुगममन्यत् । हर्षवर्धनलक्षणं स्पष्टार्थम् ॥ २८७, २८८ ॥
(सं०) श्रीवर्धनं लक्षयति-श्रीवर्धन इति । बिरुदादिभिर्विरचितः श्रीवर्धनः। तस्य तालावृत्तिद्वयेन न्यासः । हर्षवर्धनं लक्षयति--पदैरिति । पदबिरुदमात्रैविरचितो हर्षवर्धनः ॥ २८७, २८८ ॥
(क०) अथ वदनं लक्षयति-छपद्वयमित्यादि । छपयोः छगणपगणयोर्द्वयं दो दगणश्चेति वदनस्य पादे त्रयो मात्रागणा भवन्ति । अयमेवो
ग्राहः । स्वरपाटयुतान्तरमिति । तादृगेव द्वितीयः पादः स्वरपाट्युतः सन्नन्तर इति व्यपदिश्यते । अत्र युतशब्देन 'छपद्वयं दः' इत्येतदन्तरेऽपि कर्तव्यमिति गम्यते ; अन्यथा स्वरपाटकृतान्तरमित्येव ब्रूयात् । अत्रान्तरशब्देन ध्रुव उच्यते, उग्राहाभोगयोर्मध्ये भवत्वात् । न तु ध्रुवाभोगान्तरजातो धातुः; तथा सति पत्र पार्थक्येन ध्रुवेण भवितव्यम् ; तदभावादिति भावः । स्वरपाट
Scanned by Gitarth Ganga Research Institute