________________
संगीतरत्नाकर:
स्वराङ्कप्रबन्धः
पदैः स्वरैश्च विरुदैरुद्ग्राहादित्रयं क्रमात् । एकद्वित्राच तालाः स्युः खराङ्के न्यसनं स्वरैः ' ॥ २८६ ॥ इति स्वराङ्कप्रबन्धः ।
३२४
श्रीवर्धनप्रबन्धः
श्रीवर्धनः स्याद्विरुदैः पाटैरपि पदैः स्वरैः ।
आनन्दिनीजातिमान् । अथ सुदर्शनं लक्षयति-- पदैश्चेत्यादि । स्पष्टार्थः । स्वरपाटाभावाच्चतुरङ्गोऽयम् । दीपनीजातिमान् ॥ २८५ ॥
(सं०) हरविलाससुदर्शनौ लक्षयति-पदैरिति । स्पष्टार्थौ ॥ २८५ ॥
(क०) अथ स्वराङ्कं लक्षयति – पदैरित्यादि । पदैरुद्ग्राहः ; स्वरैमेलापः, विरुदैर्ध्रुव इत्ययं क्रमः । अत्रोद्ग्राहादित्रयमिति विशेषोक्त्या मेलापकसद्भावादनुक्तविशेषेषु प्रबन्धेषु मेलापकाभावो ज्ञायते । एकद्वित्रा ताला इति । उद्ग्राहे एकस्ताल:, मेलापके द्वौ तालौ, ध्रुवे त्रयस्तालाः कर्तव्याः स्युः । मालवश्रियेति । मालवश्रीसंज्ञकेन रागेण गातव्य इत्यर्थः । आभोगः पूर्ववत् कर्तव्यः । तेनायं चतुर्धातुः । रागनियमान्निर्युक्तः । पाटनकाभावात् चतुरङ्ग: । दीपनीजातिमान् ॥ २८६ ॥
(सं०) स्वराङ्कं लक्षयति-पदैरिति । पदैरेकेन तालेनोद्ग्राहः ; स्वरैस्तालद्वयेन ध्रुव : ; बिरुदैस्तालत्रयेणाभोग: ; स्वरैः समाप्तिः; स स्वराङ्कः ॥ २८६ ॥
( क ० ) अथ श्रीवर्धनं लक्षयति - श्रीवर्धन इत्यादि । अत्र बिरुद -
1 मालवश्रिया इति कलानिधिपाठ: ।
Scanned by Gitarth Ganga Research Institute