________________
चतुर्थ: प्रबन्धाध्यायः
तालै रागैस्त्रिभिर्यद्वा यद्वा वृत्तत्रयान्वितः । यद्वा देवत्रयस्तुत्या तालद्वैगुण्यमुक्तकः ॥ २८४ ॥ इति त्रिभङ्गिप्रबन्धः ।
हरविलासप्रबन्धः
पदैः सबिरुदैः पाटैस्ते नै हर विलासकः ।
इति हरविलास प्रबन्धः ।
सुदर्शनप्रबन्धः
३२३
पदैश्च विरुदैस्तेनैर्निर्दिशन्ति सुदर्शनम् ॥ २८५ ॥ इति सुदर्शनप्रबन्धः ।
1
सामान्यलक्षणोक्तः स्वरपाटपदानां प्रयोगः क्रमेण कर्तव्यः । उद्ग्राहादिविभागोऽपि भेदेषु यथायोगमुन्नेयः । अन्यपदैराभोगः । तेनायं त्रिधातुः । क्वचिच्छन्दस्तालादिनियमान्निर्युक्तः । अन्यत्र तदभावादनिर्युक्तः । विरुदतेनकाभावाच्चतुरङ्गः । दीपनीजातिमान् ॥ २८३, २८४ ॥
(सं०) त्रिभङ्गि लक्षयति-पदैरिति । पदैः पाटैः स्वरैश्च त्रिभङ्गिर्गीयते । स पञ्चप्रकार :- कश्चित् त्रिभङ्गिनाम्ना वक्ष्यमाणेन तालेन गीयते ; कश्चित् त्रिभङ्गिनाम्ना छन्दसा ; कश्चित् त्रिभिस्तालै रागैश्च ; कश्चित् त्रिभिश्छन्दोभिः । कश्चित् त्रयाणां देवानां स्तुत्या युक्त इति पञ्चविधस्त्रिभङ्गिप्रबन्धः ॥ २८३, २८४ ॥
(क०) अथ हरविलासं लक्षयति - पदैरित्यादि । सविस्दैरिति पदविशेषणम् । अतो बिरुदस्योपसर्जनत्वश्रुत्या पदशेषत्वं प्रतीयते । तेन सबिरुदैः पदैरेकं गीतखण्डं गायेदिति भावः । अनन्तरं पाटैर्द्वितीयः खण्डः । ततस्तेनैस्तृतीयः । तत्र प्रथमखण्ड उद्ग्राहः । द्वितीयतृतीयौ ध्रुवौ । पदान्तरैराभोगः । अतोऽयं त्रिधातुः । तालाद्यनियमादनिर्युक्तः । स्वराभावात् पञ्चाङ्गः ।
Scanned by Gitarth Ganga Research Institute