________________
३२२
संगीतरत्नाकरः
कन्दुकप्रबन्धः पदैः पाटैश्च बिरुदैः कन्दुकः परिगीयते ॥ २८२ ॥
इति कन्दुकप्रबन्धः।
त्रिभङ्गिप्रबन्धः स्वरैः पाटैः पदैरुक्तस्त्रिभङ्गिः स च पञ्चधा।
एकस्त्रिभङ्गितालेन वृत्तेनान्यस्त्रिभगिना ॥ २८३ ।। द्रुतौ विरामान्तौ ' इति तस्य लक्षणं वक्ष्यते । तत्राद्यं पादद्वयमुद्ग्राहः । तृतीयः पादो ध्रुवः । पूर्ववदाभोगः कर्तव्यः । तेनायं त्रिधातुः । छन्दस्तालनिबद्धत्वात् निर्युक्त एव । पदतालबद्धत्वात् द्वयङ्गः । तारावलीजातिमान् ॥ २८२ ॥
(सं०) झम्पटं लक्षयति-झम्पटेति । झम्पट: छन्दःशास्त्रे प्रसिद्धः । तेन छन्दसा क्रीडातालेन यत् गीयते, तत् झम्पटम् ॥ २८२ ॥
(क०) अथ कन्दुकं लक्षयति-पदैरित्यादि । अयमपि गाथाभेदो द्रष्टव्यः । अत्र पदैः प्रथमः पादः । पाटैर्द्वितीयः । बिस्दैस्तृतीयः । उद्ग्राहादिविभागः पूर्ववत् । तालाद्यनियमादनिर्युक्त एव । स्वरतेनकाभावाच्चतुरङ्गः । दीपनीजातिमान् । सिंहलीलादिषु पञ्चसूदग्राहे न्यासः कर्तव्यः । एवमनुक्तन्यासस्थानेषु सर्वत्र न्यायोऽनुसंधेयः ॥ २८२ ॥
(सं०) कन्दुकं लक्षयति-पदैरिति । पदैः पाटैविरुदैस्त्रिभिरङ्गैनिर्मित: कन्दुकप्रबन्धः ॥ २८२ ॥
(क०) त्रिभङ्गिं लक्षयति-स्वरैः पाटैरित्यादि । त्रिभङ्गितालेनेति । 'त्रिभङ्गिः सगणाद् गुरुः' इति तस्य लक्षणं वक्ष्यते । वृत्तेनेति । त्रिभनिवृत्तमपि गाथाभेदो द्रष्टव्यः । स्पष्टार्थमन्यत् । पञ्चसु त्रिभङ्गिपदेष्वपि
Scanned by Gitarth Ganga Research Institute