________________
चतुर्थः प्रबन्धाध्यायः
३२१ तस्य भूरितरा भेदाश्छन्दोलक्ष्मणि भाषिताः ॥ २८१॥
इति दण्डकप्रबन्धः।
झम्पटप्रवन्धः झम्पटच्छन्दसा गेयः क्रीडातालेन झम्पटः।
इति झम्पटप्रबन्धः। छन्दसामेकैकाक्षरवृद्धया प्रस्तारः प्रवृत्तः । इत ऊर्ध्व पुनरेकैकरेफवृद्धया प्रस्तारः कर्तव्यः ; 'दण्डको नौ रः' इति श्रवणात् । तस्योदाहरणं तु" इह हि भवति दण्डकारण्यदेशे स्थितिः पुण्यभाजां मुनीनां मनोहारिणि
त्रिदशविजयवीर्यदृप्यद्दशग्रीवलक्ष्मीविरामेण रामेण संसेविते । जनकयजनभूमिसंभूतसीमन्तिनीसीमसीतापदस्पर्शपूताश्रमे
भुवननमितपादपद्माभिधानाम्बिकातीर्थयात्रागतानेकसिद्धाकुले ॥" इति । अत्र पादान्ते यतिः । तस्येत्यादि । तस्य दण्डकस्य । भूरितरा भेदा इति । चण्डवृष्टिप्रपातप्रचितादयः । छन्दोलक्ष्र्माण छन्दःशास्त्रे भापिता उक्ताः; ततोऽवगन्तव्याः । तत्र पदैनिर्मितं दण्डकस्य पूर्वार्धमुग्राहः । स्वरैः निर्मितमुत्तरार्धं ध्रुवः । पदान्तरैराभोगः । तेनायं त्रिधातुः । छन्दोनियमान्निर्युक्तः । स्वरपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २८१ ॥
(सं०) दण्डकं लक्षयति-पदैरिति । दण्डकनाम्ना छन्दसा पदैः स्वरैश्च दण्डकः कर्तव्यः । दण्डकनाम छन्द: छन्दःशास्त्रप्रसिद्धम् । चण्डवृष्टिप्रभृतयः तस्य दण्डकस्य भूरितरा भेदाः बहवो भेदाः छन्दःशास्त्रे ज्ञातव्याः ॥२८१ ।।
(क०) अत्र झम्पटं लक्षयति-झम्पटच्छन्दसेति । " झम्पटं त्रिपदैः प्राहुः" इति तस्य लक्षणं गाथाभेदेषु द्रष्टव्यम् । क्रीडातालेनेति । 'क्रीडा
Scanned by Gitarth Ganga Research Institute