________________
३२०
संगीतरत्नाकरः
हंसलीलप्रबन्धः स्वनामतालके हंसलीलेऽङ्घी पदपाटकैः ॥ २८०॥
इति हंसलीलप्रबन्धः।
दण्डकप्रबन्धः पदैः स्वरैर्दण्डकेन छन्दसा दण्डको मतः। स्वरैः पाटैरुग्राहः । बिरुदैस्तेनकैश्च ध्रुवः । पदैराभोगः कर्तव्यः । तेनायं त्रिधातुः । तालनियमानियुक्तः । स्वरादिषडङ्गबद्धत्वान्मेदिनीजातिमान् ॥ २७९, २८० ॥
(सं०) सिंहलील लक्षयति-स्वरैरिति । वक्ष्यमाणेन सिंहलीलेन तालेन स्वरपाटादिभिर्यो विरचित: स सिंहलीलः ॥ २७९, २८० ॥
(क०) अथ हंसलीलं लक्षयति-स्वनामेत्यादि । स्वनामतालक इति । हंसलीलतालयुक्त इत्यर्थः । 'हंसलीलो यगणश्च लघुर्गुरुः' इति तस्य लक्षणं वक्ष्यते । पदपाटकैरज्री इति । पदैरेकः पादः । पाटैद्वितीयः । अत्र पदैरुग्राहः । पाटै वः । पदान्तरैराभोगः । तेनायं त्रिधातुः । तालनियमात् नियुक्तः । पदपाटतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २८० ॥
(सं०) हंसलीलमाह--स्वनामेति । हंसलीलेन तालेन पदैरेकोऽतिः, पाटैद्वितीयो यस्मिन् विरच्यते, स हंसलीलः ॥ २८० ॥
(क०) अथ दण्डकं लक्षयति-पदैरिति । दण्डकेन छन्दसेति । " दण्डको नौ रः” इति तस्य लक्षणम् । अस्यार्थः यस्य पादे द्वौ नकारौ, रेफाश्च सप्त भवन्ति, तस्य दण्डक इति नाम भवति । षड्विंशत्यक्षराया उत्कृतेः समनन्तरं दण्डकस्य पाठात् सप्तविंशत्यक्षरत्वमेव युक्तम् । सर्वेषां
1 तालाध्याये तु 'हंसलीले विरामान्तं लघुद्वयमुदाहृतम्' इति लक्षणवाक्यं दृश्यते।
Scanned by Gitarth Ganga Research Institute