________________
चतुर्थ: प्रबन्धाध्यायः
वस्तुप्रबन्धः
मात्राः पञ्चदशाद्येऽङ्घौ तृतीये पञ्चमे तथा । सूर्यास्तु द्वितीये च स्वरपाटान्तमादिमम् ॥ २७५ ॥ अपरं स्वरतेनान्तमर्धं तदनु दोधकः' ।
यस्य स्यात्तेनके न्यासस्तद्वस्तु कवयो विदुः || २७६ ।। इति वस्तुप्रबन्धः ।
३१७
प्रथमद्वितीयचतुर्थपञ्चमाश्चत्वारः पृथक् प्रत्येकं द्विद्विगणाः । तेषु षष्ठतृतीययोः अन्त्यः तृतीयो बाणगणः ; मन्ये सर्वेऽपि मान्मथगणाः; सा कर्णाटभाषोपनिबद्धा नादन्यासा षट्पदी ॥ २७२-२७४ ॥
(क०) अथ वस्तुसंज्ञं लक्षयति मात्रा इत्यादि । आद्येऽङ्घौ मात्रा: पञ्चदश स्युः । तृतीये पञ्चमे पादे तथा; यथा प्रथमाङ्घ्रौ पञ्चदश मात्रा:, तथा तृतीयपञ्चमयोः प्रत्येकमित्यर्थः । तुर्ये द्वितीये च पादे सूर्याः द्वादश मात्रा भवन्ति । एवं पञ्च पादाः अत्र सामान्यन्यायेनाद्यं पादद्वयमादिममर्धम् ; तत् स्वरपाटान्तं कर्तव्यम् । अवशिष्टं पादत्रयमपरमर्धम् ; तत् स्वरतेनान्तं कर्तव्यम् । तदनु तेनकानन्तरं दोधकः । दोधकः पूर्वोक्तदोधकनामछन्दोविशेषः कर्तव्यः । अत्र तेनकान्तमर्धद्वयमुग्रहः । दोधको ध्रुवः । पूर्ववदाभोगः कल्पनीयः । तेनायं त्रिधातुः । मात्रादिनियमापेक्षया निर्युक्तः । तालनिषेधश्रुतेरभावादनियततालत्वापेक्षयायमनिर्युक्तश्च । नन्वेकस्यैव निर्युक्तत्वमनिर्युक्तत्वं च विरुद्धमिति चेत्, न; अपेक्षाबुद्धिनिमित्तेन भिन्नत्वात् ; यथैकस्यैव देवदत्तस्य स्वपुत्रापेक्षया पितृत्वं, स्वपित्रपेक्षया पुत्रत्वं चेति । यत्रैवंविधा विरोधप्रतीतिः, तत्रैवंविधः परिहारो द्रष्टव्यः । बिरुदव्यतिरिक्ताङ्गबद्धत्वात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २७५, २७६ ॥ 1 दोहक इति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute