________________
३१८
संगीतरत्नाकरः
विजयप्रबन्धः यत्र तेनैः स्वरैः पाटैः पदैविजयतालतः। गीयते विजयस्तेनैासः स विजयो मतः ॥ २७७ ॥
इति विजयप्रबन्धः।
त्रिपथप्रबन्धः पादत्रयं त्रिपथके पाटैश्च बिरुदैः स्वरैः।
इति त्रिपथप्रबन्धः। (सं०) वस्तु लक्षयति-मात्रा इति । प्रथमतृतीयपञ्चमपादेषु पञ्चदश मात्राः। द्वितीयतुरीययोः सूर्याः द्वादश मात्रा: । प्रथमार्धेऽन्ते स्वराः पाटाः । द्वितीयार्धस्यान्ते स्वरास्तेनकाः । तदनन्तरं पूर्वलक्षितो दोहकः । तेनकेषु समाप्तिः । तत् वस्तु ॥ २७५, २७६ ॥
(क०) अथ विजयं लक्षयति—योति । अत्र तेनादीनां पाठक्रमस्य विवक्षितत्वात्तथैव प्रयोक्तव्याः । विजयतालत इति । 'विजयः प्लुतो लघुः' इति तस्य लक्षणं वक्ष्यते । अत्र तेनैः स्वरैरुग्राहः कर्तव्यः । पाटः पदैर्भुवः कर्तव्यः । पदान्तरैराभोगः कल्पनीयः । तेनायं त्रिधातुः । तालनियमान्नियुक्तः । बिरुदाभावात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २७७ ॥ ___ (सं०) विजयं लक्षयति-यत्रेति । यत्र राज्ञां विजयो गीयते तेनैः स्वरैः पाटैः पदैविजयतालेन, तेनकेषु समाप्तिः, स विजयः ॥ २७७ ॥
(क०) अथ त्रिपथं लक्षयति–पादत्रयमित्यादि । पारेकः पादः । बिरुदैर्द्वितीयः । स्वरैस्तृतीयः । तत्र प्रथमं पादद्वयमुद्ग्राहः। तृतीयः पादो ध्रुवः । पदैराभोगः कल्पनीयः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः । तेनकाभावात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २७८ ।।
Scanned by Gitarth Ganga Research Institute