________________
संगीतरनाकरः शेषास्तु मान्मथगणा यस्यां सा षट्पदी मता ॥२७३।। कर्णाटभाषया तालवर्जिता नादमुक्तिका । भेदा वेद्यास्त्रिपद्यादेश्छन्दोलक्ष्मणि भूरयः ।। २७४ ॥
___ इति षट्पदीप्रबन्धः। श्वरणाः प्रथमद्वितीयचतुर्थपञ्चमाः पादाः पृथक् प्रत्येकं द्विद्विगणाः वक्ष्यमाणगणद्वययुक्ताः कर्तव्याः । तमेव गणविशेषं दर्शयति-बाणपान्तावित्यादिना । पष्ठतृतीयको पादौ वाणप्रान्तौ बाणगणः प्रान्ते ययोस्तौ । गणत्रयात्मकयोः पष्ठतृतीययोः पादयोः 'शेपास्तु मान्मथगणाः' इति वक्ष्यमाणत्वात् प्रत्येकं प्रथमद्वितीयौ कामगणौ कृत्वा तृतीयो बाणगणः कर्तव्यः । सोऽपि 'तद्वद्वाणगणा भेदाः प्रतिष्ठायास्तु पोडश' इत्यत्र प्रागुक्तेषु षोडशस्वेकः । शेषास्त्विति । पादषट्के मिलित्वा चतुर्दशसु गणेषु सप्तमचतुर्दशयोः बाणगणत्वेनोपयुक्तयोरन्ये द्वादश गणाः शेपाः; ते च कामगणाः कर्तव्या इत्यर्थः । नादमुक्तिकेति । नादशब्देनात्र स्थायिस्वरो विवक्ष्यते । तं सरिगादिवर्णोच्चाररहितं नादरूपमेवोच्चार्य न्यासं कुर्यादित्यर्थः । चतुप्पदीषट्पद्योळपदेशोऽन्वर्थो द्रष्टव्यः । अत्र पूर्व पादत्रयमुनाहः । उत्तरं तु ध्रुवः । पूर्ववदाभोगः कल्पनीयः । तेनायं त्रिधातुः । गणभाषानियमान्नियुक्तः । त्रिपदीवदन्ते स्वरप्रयोगस्य कर्तव्यत्वात् पदस्वराभ्यां व्यङ्गः । तारावलीजातिमान् । भेदा इत्यादि । त्रिपद्यादेरिति । आदिशब्देन चतुप्पदीषट्पद्यौ गृह्यते । एतासां भूरयो बहवो भेदाः छन्दोलक्ष्मणि छन्दःशास्त्रे " शेषा गाथास्त्रिभिः पड्भिश्चरणैश्चोपलक्षिताः” इत्यादिका वेद्याः अवगन्तव्याः ॥ २७२-२७४ ॥
(सं०) षट्पदी लक्षयति-षष्ठ इति । षष्ठस्तृतीयश्च चरणस्त्रिगणः । परे
Scanned by Gitarth Ganga Research Institute