SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः ३१५ ३१५ स्वरतेनकसंयुक्ता तेनकन्याससंयुता। इति चतुष्पदीप्रवन्धः। षट्पदीप्रबन्धः षष्ठस्तृतीयस्त्रिगणः पृथग द्विद्विगणाः परे ॥ २७२ ॥ चत्वारश्चरणा बाणप्रान्तौ षष्ठतृतीयको । त्वभिन्नार्थानामपि तात्पर्यभेदेन यमकत्वमङ्गीक्रियते, तन्मते व्यवच्छेद्यस्य विद्यमानत्वेनार्थवत्त्वाददोषः । अर्धाविति । अत्रार्धयोर्मात्रासामान्येन "अर्ध समेंऽशके " इत्यभिधानान्नपुंसकत्वे कर्तव्येऽपि स्वरतेनकयोगस्य वक्ष्यमाणत्वात् अर्धयोस्तद्वारकवैषम्यसंभवादर्धाविति पुंलिङ्गनिर्देश उपपन्नो द्रष्टव्यः । स्वरतेनकसंयुक्तेति । पूर्वार्धे स्वरयुक्ता, उत्तरार्धे तेनकयुक्तेत्यवगन्तव्यम् । एतच्च अर्धाविति पुंलिङ्गनिर्देशादेव ज्ञायते । तेनकन्याससंयुतेति । पुनस्तेनकमारभ्य न्यासं कुर्यादित्यर्थः । त्रिपद्यादीनां तिसृणां समानधर्मत्वाद्विशेषलक्षणव्यतिरेकेण, "अनुक्तमन्यतो ग्राह्यम्" इति न्यायेन द्विपदीषट्पद्योरुक्तं तालहीनत्वं कर्णाटभाषानिर्मितत्वं च चतुष्पद्यामनुक्तमपि ताभ्यामानेतव्यम् । अत्र सस्वरः पूर्वार्ध उग्राहः । सतेनक उत्तरार्धो ध्रुवः । आभोगः पूर्ववत् कल्पनीयः । तेनायं त्रिधातुः । मात्रासंख्याभाषानियमान्नियुक्तः । पदस्वरतेनकबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २७१, २७२ ॥ (सं०) चतुष्पदी लक्षयति-सम इति । समे द्वितीयचतुर्थचरणयोः षोडश मात्राः । अयुजि आये तृतीये च चरणे पश्चदश । अघिद्वये च भिन्नौ यमको । सा चतुष्पदी । एतस्यां स्वरतेनकेन न्यासः ॥ २७१, २७२ ॥ (क) अथ षट्पदी लक्षयति-पष्ट इत्यादि । अत्र पटसु पादेषु षष्ठस्तृतीयश्च पादस्त्रिगणो वक्ष्यमाणगणत्रययुक्तः कर्तव्यः । परे चत्वार Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy