________________
३१४
संगीतरत्नाकरः
चतुष्पदीप्रबन्धः समे षोडश मात्राः स्युः पादे पश्चदशायुजि ।
यस्यां भिन्नार्थयमकावर्षी सा तु चतुष्पदी ॥ २७१ ॥ इति वक्ष्यमाणत्वादत्र पदैराभोगः कल्पनीयः । तेनायं त्रिधातुः । गणभाषानियमान्नियुक्तः । अस्या द्विपदीप्रकृतिकत्वात् “ अनुक्तमन्यतो ग्राह्यम् ॥ इति न्यायेन तत्रोक्तः स्वरप्रयोगोऽपि प्रबन्धतासिद्धये ध्रुवानन्तरमध्याहर्तव्यः । अन्यथा तालादिहीनत्वेन पदैकाङ्गतया तारावल्यादिप्रबन्धजात्ययोगादप्रबन्धतैव स्यात् । अतोऽयं पदस्वरबद्धत्वात् द्वयङ्गः । तारावलीजातिमान् ॥ २६८-२७० ॥
(सं०) त्रिपदी लक्षयति-आद्याविति । आद्यौ द्वौ चरणौ गणद्वययुतौ कार्यो। तृतीयस्तु गणचतुष्टययुक्तः । चतुर्थो गणत्रययुक्तः । एवं चतुर्षु पादेष्वेकादश गणा भवन्ति । तेषु षष्ठो रतिगणः कर्तव्यः ; एवं दशमश्च । अन्ये मान्मथाः पूर्वोक्ताः कामगणाः कर्तव्याः । तत्राद्यौ पादौ गीत्वा तदनन्तरं तृतीयश्चरणः किंचिन्न्यूनः समप्रश्च द्विगतिव्यः । ततश्चतुर्थश्चरणो गीयते । सा कर्णाटभाषाबद्धा तालवर्जिता त्रिपदी ज्ञातव्या ॥ २६८-२७० ॥
(क०) अथ चतुष्पदी लक्षयति—सम इत्यादि । अस्याश्चतुष्पद्याः समपादे द्वितीये चतुर्थे च प्रत्येकं पोडश मात्राः स्युः । अयुजि विषमे प्रथमे तृतीये च पादे पश्चदश मात्रा भवन्ति । यस्यामधौं भिन्नार्थयमकाविति । भिन्नोऽर्थोऽभिधेयं यस्य तत् भिन्नार्थ यमकं ययोरिति तथोक्तौ । यमकं नाम
" अर्थे सत्यर्थभिन्नानां वर्णानां या पुनः श्रुतिः ।
यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥" इत्युक्तलक्षणम् । ननु च यमकलक्षणेनैव भिन्नार्थत्वे सिद्धे भिन्नार्थेति यमकविशेषणं व्यवच्छेद्याभावात् व्यर्थमापद्यत इति चेत् ; सत्यम् । येषां मते
Scanned by Gitarth Ganga Research Institute