________________
चतुर्थः प्रवन्धाध्यायः चतुर्थस्त्रिगणः पादेष्वेकादश गणा इमे ॥ २६८ ॥ रतेः षष्ठश्च दशमः शेषाः स्युर्मान्मथा गणाः । गीत्वाद्यपादौ तदनु किंचिच्छेषं तृतीयकम् ॥ २६९ ॥ ततः समग्रं तं गीत्वा चतुर्थो यदि गीयते । तदा स्यात् त्रिपदी तालहीना कर्णाटभाषया ॥२७॥
इति त्रिपदीप्रबन्धः । चकारेणात्रापि कामगणा इत्यवगम्यते । अत्र ‘रतेः षष्ठः' इति वक्ष्यमाणत्वात् द्वितीयो रतिगणः । इतरे त्रयोऽपि कामगणाः । चतुर्थ इत्यादि। चतुर्थः पादश्च त्रिगणः। चकारेणात्रापि कामगणा इति गम्यते । तत्र 'दशमश्च' इति वक्ष्यमाणत्वादत्र पादे द्वितीयो रतिगणः, इतरौ कामगणौ । एकादशेत्यादि । इमे इति । पादचतुष्टयेऽप्युक्ताः संभूय एकादश गणा भवन्ति । रतेरित्यादि। षष्ठो दशमश्च रतेरिति संबन्धे षष्ठी । रतिगण इत्यर्थः । सोऽपि 'अत्युक्तायास्तु चत्वारो भेदा रतिगणा मताः' इत्यत्र प्रागुक्तेषु चतुर्यु भेदेप्वेकः । षष्ठ इति चतुर्गणात्मकस्य तृतीयपादस्य द्वितीयो गण उच्यते । दशम इति त्रिगणात्मकस्य चतुर्थपादस्य द्वितीयो गण उच्यते । एतौ रतिगणौ कर्तव्यावित्यर्थः । शेषा इति । एकादशसु मध्ये षष्ठदशमौ हित्वेतरे नव गणा मान्मथाः कर्तव्या इत्यर्थः। गाने नियममाह---गीत्वेत्यादि । किंचिच्छेषं तृतीयकमिति । तृतीयपादमादौ किंचिदवशिष्टं गीत्वा ततोऽनन्तरं तृतीयपादं समग्रमशेष गीत्वा चतुर्थः पादो गीयते चेत्, सा त्रिपदी स्यात् । अस्या लक्षणतः चतुप्पादप्रयुक्तत्वेऽप्याद्ययोरेकपादत्वप्रतीतेः श्रुतिकृतत्वात् तामनुरुध्य त्रिपदीव्यपदेश उपपद्यत एव । तत्राद्यं पादद्वयमुद्ग्राहः । द्वितीयं पादद्वयं ध्रुवः । विप्रकीर्णेषु 'ओव्यादयश्च चत्वारो भवन्त्याभोगवर्जिताः' इति वक्ष्यमाणेन वचनेन चतुर्णामेवाभोगनिषेधात् , इतरेषां पुनः ‘अनुक्ताभोगवस्तूनां पदैराभोगकल्पना'
40
Scanned by Gitarth Ganga Research Institute