________________
संगीतरत्नाकर:
विरुदान्तस्त्रिभिस्तालै रागैः सर्वाङ्गिका इमे ॥ २६७ ॥ इति पञ्चभङ्गिपञ्चाननोमा तिलकप्रबन्धाः ।
३१२
त्रिपदीप्रबन्धः
आयो द्विद्विगणौ पादौ तृतीयश्च चतुर्गणः ।
तिलकं लक्षयति- स्यादुपातिलक इत्यादि । स्पष्टोऽर्थः । अन्यत् पूर्ववत् । अत्र केचन श्रीरङ्गादीनां पदाद्यन्तत्वमात्रनियमेनेतराङ्गक्रमस्यानुक्तत्वात् कूटतानवत् प्रस्तारं कल्पयन्ति । तत्र स्वराणां क्रमस्य सिद्धत्वात् तच्छोभते । अत्र त्वङ्गानां तदभावादभित्तिचित्रप्रायमेतत् ॥ २६५ - २६७ ॥
(सं०) एवमालिकम प्रबन्धानुक्त्वा विप्रकीर्णान्निरुरूपयिषुः प्रथमनिर्दिष्टं श्रीरङ्गं लक्षणभङ्गया संगमयति - तालैरिति । चतुर्भिस्तालैः चतुर्भिः रागैश्च यो विरच्यते, स श्रीरङ्गः; स चान्ते पदैरन्वितः कर्तव्यः । श्रीविलासं लक्षयतिस्वरान्त इति । पञ्चभिस्तालैः पञ्चभिः रागैश्चान्ते स्वरसंयुक्तः श्रीविलासः । पञ्चभ िलक्षयति - तेनकान्त इति । रागद्वयेन तालद्वयेन च निवध्यमाना अन्ते तेनकसंयुक्ता पञ्चभङ्गिः । पञ्चाननं लक्षयति - पाटैरिति । पञ्चभङ्गिलक्षणवदन्तिमैः पाटैः पञ्चाननः । उमातिलकं लक्षयति- स्यादिति । त्रिभिस्तालै त्रिभी रागैर्निबद्धोऽन्ते बिरुद संयुक्त उमातिलकः । इमे श्रीरङ्गादयः पञ्च सर्वाङ्गिकाः सर्वाङ्गैः युक्ता ज्ञातव्याः ॥ २६५-२६७ ॥
( क ० ) अथ त्रिपदी लक्षयति - आद्यावित्यादि । आद्यौ; प्रथमद्वितीयौ पादौ । द्विद्विगणाविति । द्वौ द्वौ गणौ ययोस्तौ । अत्र वीप्सया प्रत्येकं द्विगणावित्यर्थः । ' शेषाः स्युर्मान्मथा गणाः' इति वक्ष्यमाणत्वात् पादद्वयेऽपि चत्वारो मन्मथगणा भवन्ति । ते च ' एवं मध्याभवा भेदा अष्टौ कामगणा स्मृताः' इति प्रागेवोक्ताः । तृतीयश्चेति ; तृतीयपादश्चतुर्गणः ।
Scanned by Gitarth Ganga Research Institute