________________
चतुर्थः प्रबन्धाध्यायः विप्रकीर्णप्रबन्धनिरूपणम्
श्रीरङ्गप्रबन्धः तालै रागैश्चतुर्भिः स्याड्रीरङ्गोऽन्ते पदान्वितः ॥२६॥
इति श्रीरङ्गप्रबन्धः ।
श्रीविलासप्रवन्धः स्वरान्तः श्रीविलासः स्यात्ताले रागैश्च पञ्चभिः।
इति श्रीविलासप्रबन्धः ।
पञ्चभङ्गिपञ्चाननोमातिलकप्रबन्धाः तेनकान्तः पञ्चभङ्गिः पाटैः पश्चाननोऽन्तिमैः ।। २६६ ॥ रागाभ्यामपि तालाभ्यां स्यादुमातिलकः पुनः ।
(क०) अथ विप्रकीर्णेषु प्रथमोद्दिष्टं श्रीरङ्गं लक्षयति-तालैरित्यादि । चतुभिरिति प्रत्येकं संबध्यते; चतुर्भिस्तालैश्चतुर्भी रागैरिति । अन्ते पदान्वित इति। 'सर्वाङ्गिका इमे' इति वक्ष्यमाणत्वात् स्वरादिषु षडङ्गेप्वेवान्ते पदं प्रयोक्तव्यमिति नियमः क्रियते । तेन स्वरादीनीतराणि वाञ्छितक्रमेण प्रयोक्तव्यानीति दर्शितं भवति । एवं प्रतिरागं पदान्तत्वेन पडङ्गयोजना कर्तव्या । अत्रोद्ग्राहादिविभागः प्रबन्धादिनामाङ्कश्च रागकदम्बवत् कर्तव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः । अत्र चतुर्भिस्तालै रागैरिति संख्याया एव नियमः, न स्वरूपनियमः । अतस्तालादिनियमशङ्का न कर्तव्या । षडङ्गबद्धत्वात् मेदिनीजातिमान् । अथ श्रीविलासं लक्षयति-स्वरान्न इत्यादि । स्पष्टोऽर्थः । अनुक्तमन्यत् श्रीरङ्गवदनुसंधेयम् । अथ पञ्चभङ्गिपञ्चाननौ लक्षयतितेनकान्त इति । अन्तिमैस्तेनकैः पञ्चभङ्गिः । अन्तिमैः पाटः पश्चाननः स्यात् । रागाभ्यां तालाभ्यामित्युभयोर्योजनीयम् । इतरत्त पूर्ववत् । अथोमा
Scanned by Gitarth Ganga Research Institute