________________
३०८
संगीतरत्नाकरः तद्विमानाच्छङ्खपाटैरन्तरः स्यात्ततस्तु षट् । प्रत्येकं द्विः पदानि स्युः संपक्केष्टाकतालतः॥ २६०॥ ततस्तद्वत् स्वराः पाटास्तद्विमानेन चान्तरः। कांस्यतालोद्भवैः पाटैरुद्धट्टेन पदानि षट् ॥ २६१ ॥ प्राग्वत्तथा स्वराः पाटाः पाटैर्मुरजसंभवैः। अन्तरः पूर्ववत्तस्मादाभोगश्चाविलम्बितः ॥ २६२ ॥ प्रबन्धनान्ना प्रामानं नेतृनामाथ मङ्गलम् ।
निर्देशः । शङ्खपाटैरिति । घुघुथोदिगित्यादिप्रचुरैर्वर्णैः । ततस्तु पडिति । अत्र तुशब्दः संपकैप्टाकस्य पूर्वेभ्यस्तालेभ्यो विशेषद्योतनार्थः । सोऽप्यत्र षट् पदानीत्येषः । कांस्यतालोद्भवैरिति । ततकटप्रमुखैर्वर्णैः । उद्घट्टेनेत्यादि । मुरजसंभवैरिति । तकिटतोमित्येतत्प्रधानैः पटहाक्षरैरित्यर्थः । पूर्ववदिति । तालद्विमानेनेत्यर्थः। तस्मादित्यादि। तस्मात् अन्तरादनन्तरम् । आभोगश्चेति। चकारेणाभोगोऽप्युद्ध?न गीयत इत्यर्थः । अविलम्बित इति । विलम्बादत्यन्तविलक्षणेन द्रुतलयेन प्रयुक्त इत्यर्थः ; लोकेऽप्यविलम्बाचिरशब्दाभ्यां शैघ्रयप्रतीतेः । एतेन पदेप्वन्तरेषु च मध्यो वा विलम्बो वा लयः कर्तव्य इत्यवगम्यते । एवमाभोगः प्रबन्धनानोपलक्षितो गेयः । अत्रैव गातृनामापि कर्तव्यमित्यनुक्तमपि गम्यते । कुतः! अमुकः प्रबन्धोऽनेन गीत इति तत्कर्तृत्वसंगतेः । नेतनाम मामानमिति । प्रथममुद्धट्टपदेषु तदन्तरेषु च यन्मानं कृतं तन्मानयुक्तं स्तुत्यनाम कर्तव्यमित्यर्थः । अथ मङ्गलं वाक्यमिति तेनेतिशब्दप्रयोग उच्यते । मङ्गलस्य ब्रह्मणः प्रकाशकत्वेनोक्तत्वात्तस्यापि मङ्गलत्वमुपचारात् ; मङ्गलप्रकाशकं वाक्यं कर्तव्यमित्यर्थः । एकस्यापि तेनशब्दस्य बहुशः प्रयोगादनेकपदात्मकतया तत्समुदायस्य वाक्यवद्वाक्यत्वम् । अथ
Scanned by Gitarth Ganga Research Institute