________________
चतुर्थः प्रबन्धाध्यायः वाक्यमालापके न्यासः पञ्चतालेश्वरो भवेत् ।। २६३।। वीरावतारः शृङ्गारतिलकश्चेति स द्विधा । वीरशृङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः ।। २६४ ॥
इति पञ्चतालेश्वरप्रबन्धः ।
तालार्णवप्रबन्धः तालार्णवो भूरितालः स द्वेधा गद्यपद्यतः ।
इति तालार्णवप्रबन्धः। इत्यालिप्रबन्धनिरूपणम्।
वान्विताभिधानमतेन वाक्यत्वं द्रष्टव्यम् । आलापके न्यास इति । प्रबन्धादावारब्धमालापमारभ्य गीतमोक्षः कर्तव्य इत्यर्थः । पञ्चभिश्चच्चत्पुटादिभिमार्गतालैः प्रयुक्तत्वात् प्रबन्धेपूत्कृष्टतया ईश्वर इत्युक्तः । वीरावतार इत्यादि । वीरशृङ्गारयोरिति । वीररसे गीतो वीरावतारः । शृङ्गाररसे गीतः शृङ्गारतिलकः । तेन पीयन्त इति । तेन ; पञ्चतालेश्वरेण । चाचपुटादीनां लक्षणानि तालाध्यायादेवावगन्तव्यानि । अत्र पञ्चसु तालेषु मिलित्वा सस्वरपाटादीनि पदानि सप्तविंशतिः । तत्तत्तालपदान्तरेप्वन्तरास्तत्तत्तालाः पाटनिर्मिताः पञ्च । एतेप्वालापान्तराणि दश पदान्युद्ग्राहः कल्पनीयः । इतराणि ध्रुवः कल्पनीयः । आभोगस्तूक्त एव । तेनायं त्रिधातुः । अथवा अन्तरशब्देनात्र पृथगवयवो गृह्यते । तदा प्रतितालमाद्यपदद्वयमुद्ग्राहः । उत्तरपदत्रयं ध्रुवः । ध्रुवानन्तरमन्तरः। यद्यपि तस्य सालगसूडस्थरूपकेष्वेवेति नियमः कृतः, तथाप्यत्र वचनसामर्थ्याद्भविष्यति । त्रिवातवोऽवान्तरप्रबन्धाः पञ्च । महाप्रबन्धस्त्वाभोगेन सह चतुर्धातुरित्यवगन्तव्यः । तालनियमान्नियुक्तः । बिरुदहीनत्वात् पञ्चाङ्गः । आनन्दिनीजातिमान् ।
अथ तालार्णवं लक्षयति-तालार्णव इति । भूरिताल इति । भूरयो
Scanned by Gitarth Ganga Research Institute