________________
चतुर्थः प्रबन्धाध्यायः कार्योऽन्तरस्ततश्चाचपुटेन पदपञ्चकम् । तद्वत्तेन स्वराः पाटास्तद्विमानेन चान्तरः ।। २५८ ॥ हुडुक्कपाटैस्तदनु षपितापुत्रकेण च ।
पृथक् पदानि पञ्च द्विस्तेनैव स्वरपाटकम् ॥ २५९॥ सरिगादयः; पाटाः वाद्याक्षराणि । अयमर्थः—आलापान्तरमेकं पदं गीत्वा तदवयवत्वेन स्वरान् पाटांश्च गायेत् । अनन्तरं द्वितीयं पदं गीत्वा पूर्ववत् स्वरान् पाटान् गायेत् । एवं पदपञ्चकं गातव्यमित्येतदपि पृथक्पदेन द्योत्यत इति । अत्र स्वरपाटयोः क्रमो न विवक्षितः । तेन क्वचित् प्रथमं पाटान् गीत्वा ततः स्वरा गातव्या इति मन्तव्यम् । एवंच पञ्चमपदानन्तरं पाटान् गीत्वा स्वरेषु प्रयुक्तेषु सत्सु वक्ष्यमाणस्य पाटात्मकान्तरस्य पदावयवस्य च पाटस्य प्रत्यासत्त्या प्रतीतं सांकर्य परिहृतं भवति; स्वरैर्व्यवहितत्वादिति भावः । ततः परमित्यादि । द्विचच्चत्पुटमानेनेति । चच्चत्पुटस्यावृत्तिद्वयेनेत्यर्थः । पटहसंभवैः पाटैरिति । ‘ङवर्जितः कवर्गश्च टतवर्गौ रहावपि । इति वक्ष्यमाणैरक्षरैरन्तराख्यो गीतावयवः कार्यः। एवमन्तरे पाटनियमस्य कृतत्वादनन्तरोक्तानां पाटानामनियमो वेदितव्यः । तेन यस्य कस्यापि वाद्यस्यानुकरणाक्षराणि शुद्धानि मिश्राणि वा तत्र प्रयोक्तव्यानीत्यर्थः । एवं वक्ष्यमाणेप्वन्तरेषु तालावृत्तिनियमात् सस्वरपाटेषु पदेषु तालावृत्तिनियमो न विद्यत इति मन्तव्यम् । ततश्चाचपुटेनेत्यादि । तद्वदित्यतिदेशेनात्र पृथक द्विरित्यनुषञ्जनीयम् । हुडुकपाटैरित्यादि।
'कुर्वीत पाटहान् वर्णानिह देंकारवर्जितान् ।
अत्रान्यैरधिकावुक्तौ मझेंकारौ मनीषिभिः ॥' इति वक्ष्यमाणै डुक्कोद्भवैः । तदन्विति । स्वरपाटकमिति द्वंद्वैकवद्भावान्नपुंसक
Scanned by Gitarth Ganga Research Institute