________________
३०६
संगीतरत्नाकरः
पञ्चतालेश्वरप्रबन्धः आलापः प्रागतालः स्यात् पृथग्द्विः पदपञ्चकम् ॥२५६॥ चच्चत्पुटेन तेनैव स्वराः पाटास्ततः परम् । द्विचच्चत्पुटमानेन पाटैः पटहसंभवैः ॥ २५७ ॥ तादृगर्थद्योतकत्वाद्रागकदम्बो व्यपदिश्यते ; न वृत्तकदम्बः, न तालकदम्बो वा ॥ २५३-२५६ ॥
(सं०) रागकदम्बं लक्षयति-नन्द्यावर्त इति । रागकदम्बको द्विप्रकार:-नन्द्यावर्तः, स्वस्तिकश्चेति । तत्र नन्द्यावर्त लक्षयति-चतुर्वृत्त इति । चत्वारि वृत्तानि यस्मिन्नसौ चतुर्वृत्तः । चतुर्भिस्तालैर्युक्तः, अनेकैः रागैरुपनिबध्यमानो नन्द्यावर्तः स्यात् । अस्य तालमानद्वयेन तालावृत्तिद्वयेनोद्गाहेण वा न्यासः समाप्तिः । अन्ये त्वेनं रागकदम्बकं गद्यैरेव कुर्यादिति जगुः; केचिदेकेन तालेनेति । स्वस्तिकं लक्षयति-स्वस्तिक इति । पूर्वस्मात् द्विगुणोऽष्टवृत्तोऽष्टतालश्च स्वस्तिकः । मतान्तरेणान्यद्भेदद्वयमाह-अब्जपत्रेति । केषांचिन्मतेन पूर्वपूर्वद्वैगुण्येन भेदद्वयं भवति । षोडशवृत्तः षोडशतालोऽब्जपत्र: । अब्जगर्भोऽजपत्रेऽन्तर्गतः । द्वात्रिंशवृत्तो द्वात्रिंशत्तालो भ्रमरामेडित इति ॥ २५३-२५६ ॥
(क.०) अथ पञ्चतालेश्वरं लक्षयति-आलापः प्रागतालः स्यादिति । अताल इति विशेषणेनात्रालापशब्देन रागालाप उच्यते, न गमकालप्तिः ; तस्या अप्यालापशब्दवाच्यत्वेन वक्ष्यमाणत्वेऽपि सतालत्वात् । पाक प्रथमम् अतालः तालरहित आलापो गेय इत्यर्थः। चच्चत्पुटेन: "ताले चच्चत्पुटे ज्ञेयं गुरुद्वंद्वं लघु प्लुतम् ” इति लक्षितेन । पृथक् पदपञ्चकं द्विरिति । पृथगिति । भिन्नधातुकमित्यर्थः । तादृशं पदपञ्चकं द्विवारं गेयमित्युक्तं भवति । तेनैवेति । चच्चत्पुटेनैवेत्यर्थः । स्वराः पाटा इति । स्वराः
Scanned by Gitarth Ganga Research Institute