________________
चतुर्थः प्रबन्धाध्यायः
३०५ अजगर्भाद् भ्रमरो द्विगुण इति द्वात्रिंशवृत्तो द्वात्रिंशत्तालो द्वात्रिंशदाग इत्यर्थः । भ्रमरादानेडितो द्विगुण इति चतुःषष्टिवृत्तश्चतुःषष्टितालश्चतुःषष्टिराग इत्यर्थः । अब्जपत्रादीनां स्वस्तिकभेदानां चतुर्णामपि मतान्तरेण गद्यरूपत्वमप्यवगन्तव्यम् । अत्रोद्ग्राहाद्यवयवविभागस्तु-प्रतितालं प्रतिरागं पद्ये वा गद्य वा पूर्वार्धमुद्ग्राहः । उत्तरार्धं ध्रुवः । एवं रागतालाश्रयत्वेन यावन्तो गद्यरूपाः पद्यरूपा वा गीयन्ते, तावन्तोऽवयवभूता द्विधातवः । अवयवी तु रागकदम्बाख्यो महाप्रबन्धः । यथा परार्थानुमाने प्रतिज्ञादीनामवान्तरवाक्यानां समुदाय एव पञ्चावयववाक्यमित्युच्यते, तदपेक्षया प्रतिज्ञादीनि यथा तत्र पदानीत्युपर्यन्ते, तथात्रापि तालादियुक्ता यावन्तो रागास्तावन्ति पदानीत्युपचारादुच्यन्ते । "अवयवकृतं लिङ्गं समुदायस्यापि विशेषकं भवति" इति न्यायेन रागकदम्बो द्विधातुरेव । यथा गो: कर्णादौ कृतं लिङ्गं गोविशेषकं भवति, तद्वदिति भावः । अत्राभोगाभावेऽप्यन्तिमे रागे पदैर्गातृनेतृप्रबन्धनामाङ्कितः कर्तव्यः । तत्रोद्ग्राहध्रुवयोः स्वरादिकाङ्गनियमस्यानुक्तत्वेन तदभावाद्वाग्गेयकारेच्छयात्राङ्गयोजना कर्तव्येति लक्ष्यतोऽप्यवगम्यते । तथाहि—गोपालनायकेन गीतद्वात्रिंशदागतालयुक्तगद्यात्मके भ्रमराख्ये स्वस्तिकभेदे रागकदम्बे प्रथमसिंहनन्दनतालबद्धे मालवश्रीपदे पदतालावेवोद्ग्राहध्रुवयोोजिताविति द्वयङ्गत्वम् । तथा दर्पणतालयुक्ते वेलावलीपदे पदाभावात् पञ्चाङ्गता । धन्नासीपदादिषु कचिद्विरदाभावात् पञ्चाङ्गता । इतरेषु तु षडङ्गत्वमित्यनियताङ्गत्वात् मेदिन्यादिजातिमान् । छन्दस्तालाद्यनियमादनियुक्तः । अत्र वृत्तरागतालानां प्रत्येकं बाहुल्याविशेषेऽपि रागाणां प्राधान्याद्रागकदम्बव्यपदेशः, न तालकदम्बव्यपदेशो वा, नापि वृत्तकदम्बव्यपदेशः । यद्वा वृत्ततालयोः 'चतुर्वृत्तश्चतुस्तालः' इत्यादिनियममारभ्य चतुःषष्टिवृत्ततालपर्यन्तं नियमस्योक्तत्वात् 'रागराजिविराजितः' इत्यनियमद्योतनेन चतुःषष्टिनियमापेक्षया प्रतिवृत्तं प्रत्यर्थे प्रतिपादं राजिपदसामर्थ्याद्रागाणामधिकत्वेऽपि न दोष इति दर्शितम् ।
39
Scanned by Gitarth Ganga Research Institute