________________
संगीतरत्नाकर:
रागकदम्बप्रबन्धः
नन्द्यावर्तः स्वस्तिकश्च द्विधा रागकदम्बकः । चतुर्वृत्तश्चतुस्तालो रागराजिविराजितः ॥ २५३ ॥ नन्द्यावर्तो भवेत्तस्य तालमानद्वयेन वा । उद्ग्राहेणाथवा न्यासो गद्येनैनं परे जगुः ॥ २५४ ॥ तालेनैकेन केचित्तु स्वस्तिको द्विगुणस्ततः । अब्जपत्रोsa जगर्भश्च भ्रमराम्रेडिते मते ।। २५५ ॥ केषांचित् पूर्वपूर्वस्माद् द्विगुणः स्यात् परः परः । इति रागकदम्बप्रबन्धः ।
३०४
(क०) अथ भेदनिर्देशपूर्वकं रागकदम्बं लक्षयति - नन्द्यावर्त इत्यादि । अत्र नन्द्यावर्तस्य लक्षणमाह— चतुर्वृत्त इत्यादिना । चतुर्वृत्तश्चत्वारि वृत्तानि यस्य सः । चतुस्ताल इति । प्रतिवृत्तं भिन्नताल: कर्तव्य इत्यर्थः । रागराजिविराजित इति । प्रतिपादं प्रत्यर्थं वा प्रतिवृत्तं वा रागभेदः कर्तव्य इत्यर्थः । तालमानद्वयेनेति । यस्मिन् वृत्ते यस्तालः प्रयुक्तस्तस्य तालस्य मानं प्रमाणं, तद्द्वयेन ; आवृत्तिद्वयेनेत्यर्थः । अरुच्या पक्षान्तरमाह - - उद्ग्राहेणाथवेति । अत्रेयमरुचिः - यत्राल्पमात्रो झम्पादितालः प्रयुज्यते, तत्र तालमानद्वयेन न्यास उपपद्यते । यत्र त्वधिकमात्रः सिंहनन्दनादिः प्रयुज्यते, तत्र नोपपद्यत इति । उद्ग्राहमारभ्य न्यासश्चेदुभयत्राप्युपपद्यत इति भावः । एनं रागदम्बं परे आचार्या गद्येन जगुरिति मतभेदो दर्शितः । स्वस्तिकस्य लक्षणमाहस्वस्तिक इत्यादि । ततः ; नन्द्यावर्तात् । द्विगुण इति । अष्टवृत्तोऽष्टतालोऽष्टरागो वेत्यर्थः । अब्जपत्र इत्यादि । केषांचिन्मते उक्तलक्षणः स्वस्तिक एवाजपत्र इत्युच्यते । परः पूर्वस्माद् द्विगुण इति । अयमर्थः - पूर्वस्मात् अब्ज - पत्रात् परः अब्जगर्भः द्विगुण इति षोडशवृत्तः षोडशतालः षोडशराग इत्यर्थः ।
Scanned by Gitarth Ganga Research Institute