SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३०३ चतुर्थः प्रबन्धाध्यायः अनिघद्धा निबद्धा च द्विधा सा गद्यपद्यजा ॥ २५१ ॥ सर्वमन्त्रमयी ह्येषा सर्वसिद्धिप्रदायिनी । गातव्या नियतैर्नित्यं गीर्वाणगणवल्लभा ॥ २५२ ।। इति मातृकाप्रबन्धः। संभवति–एकैकपदान्तरितत्वेन संस्कृतप्राकृतवाचोर्मार्गदेशीतालयोश्च प्रयोगेण वा, उग्राहे संस्कृतवाङ्मार्गतालयोर्धवे प्राकृतवाग्देशीतालयोश्च प्रयोगेण वा; उभयोरेक्तरेण प्रकारेण मातृका दिव्यमानुषीत्युक्तम् । अनिबद्धेत्यादि । सा द्विविधा मातृका-अनिबद्धा छन्दोहीना सती गद्यजेत्युच्यते ; निबद्धा छन्दोबद्धा सती पद्यजेति । अत्रोद्ग्राहादिविभागस्तु-अकारादीनि षोडश पदान्युग्राहत्वेन गेयानि । ककारादीनि पञ्चत्रिंशत् पदानि ध्रुवत्वेन गेयानीति । आभोगस्तु दिव्यादिभेदानुसारेणानियतवर्णपूर्वकैः संस्कृतादिपदैर्गातृनेतृप्रबन्धनामाङ्कितो गातव्यः । तेनायं प्रबन्धस्त्रिधातुः । तालादिनियमान्निर्युक्तः । पदतालबद्धत्वात् व्यङ्गः । तारावलीजातिमान् ॥ २४८-२५२ ।। (सं०) मातृकां लक्षयति--एकैकेति । अकाराचेकैकमातृकावर्णपूर्वकाणि क्रमेण द्विपञ्चाशत् पदानि गीयन्ते चेत् , तदा मातृकेत्युच्यते । सा त्रिविधादिव्या, मानुषी, दिव्यमानुषी चेति । एतासां लक्षणमाह-दिव्येति । संस्कृतया वाचा भाषया मार्गतालैः चच्चत्पुटादिभिर्या गीयते सा दिव्या। देशभाषया देशीतालैर्या गीयते सा मानुषी । संस्कृतदेशभाषयोर्मार्गदेशीतालयोर्मिश्रुत्वान्मिश्रितानां गानात् दिव्यमानुषी । पुनरपि द्वैविध्यमाह-अनिबद्धेति । गद्यैर्विरचिता अनिबद्धा ; पद्यैर्विरचिता निबद्धेति, यां सर्वेष्वपि प्रबन्धेषु प्रशस्तामाहुः । तस्याः प्रयोगे नियममाह-सर्वेति । नियतैः; शुचिभिः सावधानैश्च ; अन्यथा गाने दोषादित्यर्थः ॥ २४८-२५२ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy