________________
३०२
संगीतरत्नाकरः 'छन्दश्चित्यां विचेतव्याश्छन्दसां बहवो भिदाः।
इति वृत्तप्रबन्धः।
मातृकाप्रबन्धः एकैकमातृकावर्णपूर्वकाणि पदानि चेत् ॥ २४८ ॥ क्रमेण परिगीयन्ते मातृका सा त्रिधा मता। दिव्या च मानुषी दिव्यमानुषी चेति तत्र तु॥२४९ ।। दिव्या संस्कृतया वाचा मार्गतालैश्च गीयते । मानुषी प्राकृतगिरा देशीतालैश्च निर्मिता ॥ २५० ॥
उभयोर्मिश्रणादुक्ता मातृका दिव्यमानुषी । समविषमवृत्तप्रकरणेषु विचित्योपादेया इत्यर्थः । सुगममन्यत् ॥ २४६-२४८ ॥
(सं०) अथ वृत्तं लक्षयति-छन्दसेति । येन केनापि छन्दसा, स्वाभिलषितेन तालेन यद्गीयते, तदिह वृत्तम् । तस्य चरणान्ते वा वृत्तान्ते वा स्वरान् क्षिपेत् न्यस्येत् । मतान्तरमाह-स्वरहीनमिति । तत् स्वरैविनापि गातव्यमिति केचित् । वृत्तमिति छन्दोविशेष एवायम् | इतोऽप्यन्ये छन्दसां बहवो भेदाश्छन्दोविचितिनाम्नि मदीये ग्रन्थे विलोकनीयाः ॥ २४६-२४८ ॥
(क०) अथ मातृकां लक्षयति- एकैकेत्यादि । एकैकमातृकावर्णपूर्वकाणीति । मातृकावर्णाः मातृकाया मन्त्रस्य वर्णा अकारादिक्षकारान्ताः, तेप्वेकैकवर्णपूर्वकाणि क्रमेणाकारादिक्रमेण-प्रथममकारादि पदम् , द्वितीयमाकारादि, तृतीयमिकारादि, चतुर्थमीकारादि, पञ्चममुकारादि, एवं क्रमेण क्षकारादिपर्यन्तं पदानि गीयन्ते चेत् , सा मातृका । उभयोमिश्रणादिति । संस्कृतप्राकृतवाचोर्मार्गदेशीतालयोश्च सहप्रयोगादित्यर्थः । मिश्रणं च द्वेधा
1छन्दश्चित्येति कलानिधिपाठः।
Scanned by Gitarth Ganga Research Institute