________________
३०१
चतुर्थः प्रबन्धाध्यायः
घटप्रबन्धः तेनैरधं द्विपद्यर्ध घटस्तेनकमुक्तिकः।
इति घटप्रबन्धः।
वृत्तप्रवन्धः छन्दसा येन केनापि तालेनेष्टेन गीयते ॥ २४६ ।। वृत्तं तस्य च पादान्ते वृत्तान्ते वा स्वरान् क्षिपेत् । स्वरहीनं तदित्यन्ये वृत्तं छन्दसि चापरे ॥ २४७ ॥
(क०) 'अथालिक्रमप्रवन्धानां क्रमो न विवक्षित इति दर्शयितुमुद्देशक्रममुल्लङ्घय घटं लक्षयति-ते रित्यादि । तेनकमुक्तिक इति विधेयविशेषणम् । घटे तेनके न्यासः कर्तव्य इत्यर्थः । तेनैरर्धमिति । द्विपद्यां 'पादे छः पञ्च भा गोऽन्ते' इत्यादिना यावन्मात्रमर्धमुक्तं, तावन्मात्रमेव पूर्वार्धमुद्ग्राहसंज्ञकं घटे तेनैवद्धं कर्तव्यमित्यर्थः । द्विपद्यर्धमिति प्रत्यासत्तेरयमर्थोऽवगम्यते; अन्यथा सापेक्षस्यार्धशब्दस्य प्रतिसंवन्ध्यभावेनाकाङ्क्षाया अपूरणात् । द्विपद्यमिति । तादृशमेव द्वितीयम) द्विपद्यामिव पदैर्वद्धं कर्तव्यमित्यर्थः । किंच ‘अर्धान्तेऽन्ये स्वरानाहुः' इत्यनेनात्रापि वैकल्पिकस्वरप्रयोगो द्रष्टव्यः । त्रिधातुत्वादिकं द्विपदीवत् द्रष्टव्यम् ।। २४६ ॥
(सं०) घटं लक्षयति-तेनैरिति । तेनैरधृ पूर्वोक्तमेव द्विपद्या अर्ध क्रियते चेत् , तदा घट इत्युच्यते ॥ २४६ ॥
(क०) अथ वृत्तं लक्षयति-छन्दसा येन केनापीति । छन्दश्चित्येति । छन्दोविचितिसंज्ञकेन ग्रन्थेनेत्यर्थः । विचेतव्या इति । अत्र समाध
1 अनेनात्र २६ तमे श्लोके 'घटो वृत्तम् ' इत्यत्र व्युत्क्रमेण पाठ: कल्लिनाथसंमत इत्यवगम्यते ।
Scanned by Gitarth Ganga Research Institute