________________
३००
संगीतरत्नाकरः सत्यं किंतु मते येषां वृत्तं वृत्ताख्यवृत्ततः। तन्मते तोटकस्येह नैवास्ति पुनरुक्तता ॥ २४५ ॥
इति तोटकप्रबन्धः ।
यस्य पादे गकारलकाराः क्रमेण विंशतिर्भवन्ति, तत् वृत्तं वृत्तं नामेति । तत्रोदाहरणम्
“गात्रदुःखकारि कर्म निर्मितं भवत्यनर्थहेतुरत्र
तेन सर्वमात्मतुल्यमीक्षमाण उत्तमं सुखं भजस्व । विद्धि बुद्धिपूर्वकं ममोपदेशवाक्यमेतदादरेण
साधुवृत्तमुत्तमं महाकुल्पसूतमेति नो हि जन्म ॥" इति । पादान्ते यतिः । येषामाचार्याणां मत एवंविधन वृत्ताख्यवृत्तेन वृत्तप्रबन्धो भवति । तन्मत इह प्रबन्धविषये तोटकस्य पुनरुक्तता नास्त्येवेति । अत्रापि तोटकस्येत्युपलक्षणम् । तेन पूर्वोक्तानां कन्दादीनामपि पुनरुक्तता नास्त्येवेति परिहारार्थः। एतेन मतान्तरे वृत्तप्रबन्धस्य वृत्तसामान्यविषयत्वे तु तोटकादीनां पुनरुक्ततैवेति दर्शितं भवति । अत्र तोटकस्य पूर्वार्धमुग्राहः । उत्तरार्धं ध्रुवः । पूर्ववत् पदैराभोगः कर्तव्यः । तेनायं त्रिधातुः । छन्दोनियमान्निर्युक्तः । स्वरपदतालबद्धत्वात् व्यङ्गः । भावनीजातिमान् ॥ २४४, २४५ ॥
__ (सं०) तोटकं लक्षयति-तोटकच्छन्दसेति । तोटकनाम्ना छन्दसा तोटको गीयते । अन्ते चरणान्ते न्यस्ता: स्वरा यस्मिन् । आक्षिपतिनन्विति । परस्तात् वृत्तं वक्ष्यते । तोटकस्य वृत्तान्तर्भूतत्वादत्र पुनर्वचनं विफलमिति । परिहरति-सत्यमिति । यदि वृत्तशब्देन छन्दोमात्रमुच्यते, तदा भवत्येव पौनरुक्त्यम् ; यदा तु वृत्तनामकस्वरच्छन्दोविशेष उच्यते, तस्मिन् मते तोटकस्य पौनरुक्त्याभावः ॥ २४४, २४५ ॥
Scanned by Gitarth Ganga Research Institute