________________
२९९
चतुर्थः प्रबन्धाध्यायः
तोटकप्रबन्धः तोटकच्छन्दसा न्यस्तस्वरोऽध्यन्ते तु तोटकः। ननु वृत्ते वक्ष्यमाणे पुनरुक्तोऽत्र तोटकः ॥ २४४ ॥
(क०) अथ तोटकं लक्षयति-तोटकच्छन्दसेत्यादि । तोटकच्छन्दसो लक्षणं तु "तोटकं सः" इति । अस्यार्थः-~-जगत्यधिकारे प्रस्तुते यावद्भिः सकारैर्जगतीपादः पूर्यते, तावन्त एव सकारा यत्र पादे भवन्ति, तत् तोटकं नाम वृत्तमिति । द्वादशाक्षरात्मकस्य जगतीपादस्य चतुर्भिः सगणैः पूरितत्वात् चत्वारः सगणास्तोटकमित्यर्थः । सूत्रे जातिविवक्षयैकवचनं द्रष्टव्यम् । तत्रोदाहरणम्
" त्यज तोटकमर्थवियोगकरं प्रमदाधिकृतं व्यसनोपहतम् ।
उपधाभिरशुद्धमतिं सचिवं नरनायक! भीरुकमायुधिकम् ॥" इति । अत्र पादान्ते यतिः। तोटकच्छन्दसेतीत्थंभूतलक्षणे तृतीया। तेन बद्धः प्रबन्धोऽपि तोटक इत्युच्यते । अध्यन्ते न्यस्तस्वरस्त्विति । अत्र तुशब्दो यद्यर्थः । तोटकं छन्द एव प्रतिपादान्तं न्यस्तस्वरं चेत् , तोटकप्रबन्ध इत्यर्थः । वक्ष्यमाणेन वृत्ताख्यप्रबन्धेनास्य पौनरुक्त्यमाशङ्कय चोदयति-नन्विति । वृत्ते वृत्ताख्यप्रबन्धे वक्ष्यमाणे सति अत्र तोटकः पुनरुक्तो भवतीति । अयमभिसंधिः-वक्ष्यमाणे वृत्ताख्यप्रबन्धलक्षणे 'छन्दसा येन केनापि ' इति सामान्येन वृत्तमात्रोपादानात्तदन्तर्भूतत्वेन तोटकस्यापि तत्र प्राप्तेरत्र पृथग्वचनं पुनरुक्तमेवेति । किंचात्र तोटक इत्युपलक्षणम् । तेन कन्दतुरगलीलाक्रौञ्चपदार्यागाथाद्विपथकलहंसानां छन्दोरूपाणां वृत्तेऽन्तर्भावात्तेषामपि पुनरुक्ततेति चोद्यार्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति। अनङ्गीकारे विशेषं दर्शयतिकिंत्विति । येषां पते वृत्ताख्यत्ततो वृत्तं भवेत् । वृत्ताख्यवृत्तस्य लक्षणं तु-"ग्लिति वृत्तम् ॥ इति । अस्यार्थः—कृतौ छन्दसि विंशत्यक्षरात्मके
Scanned by Gitarth Ganga Research Institute