________________
२९८
संगीतरत्नाकरः वर्णजो मात्रिकश्चेति कलहंसो द्विधा मतः । गद्यात्मा चेत् स्वरान् गीत्वा ततः पदनिवेशनम् ॥२४३॥
इति कलहंसप्रबन्धः। इति । इदमेवोदाहरणं च । अस्यार्थः-जागते पादे द्वादशाक्षरात्मके चरणे द्वितीयचतुर्थषष्ठसप्तमदशमद्वादशाक्षराणि यदा गुरवो भवन्ति, तदा हंसाख्यं छन्दः । हंसाख्यमेव कलहंसम् । तेन बद्धः प्रबन्धः कलहंस उच्यते । अन्ते स्वरान्वितैः पादैरिति । प्रतिपादान्तं स्वरान् प्रयुज्यादित्यर्थः । स्वरे न्यास इति । प्रथमपादयुक्तेषु स्वरेषु प्रथमस्वरान् कतिचिदारभ्य न्यासं कुर्यादित्यर्थः । झम्पादितालतो गेय इति । 'झम्पातालो विरामान्तं द्रुतद्वंद्वं लघुस्तथा' इति झम्पातालस्य लक्षणं वक्ष्यते । आदिशब्देन तन्मात्रासंमितदेशीतालान्तरं गृह्यते । वर्णजो मात्रिकश्चेति । वर्णजः पद्यरूपः । मात्रिको गद्यरूपः । वर्णजस्योक्तलक्षणानुसारेण नियतगणबद्धत्वात् पद्यरूपत्वम् । मात्रिकस्यानियतगणबद्धत्वात् गद्यरूपत्वम् । मात्रासंख्या तूभयोः समानैव; अन्यथा कलहंसप्रकृतिकत्वाभावप्रसङ्गात् । गद्यात्मा चेदिति । मात्रिकश्चेदित्यर्थः । स्वरान् गीत्वा ततः पदनिवेशनमिति । प्रतिपादमादौ स्वराः प्रयोक्तव्या इत्यर्थः । अत्र प्रथमार्धमुद्ग्राहः । उत्तरार्धं ध्रुवः । पूर्ववदाभोगः पृथक् कर्तव्यः । तेनायं त्रिधातुः । छन्दस्तालनियमात् निर्युक्तः । स्वरपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २४२, २४३ ॥
(सं०) कलहंसं लक्षयति-छन्दस इति । कलहंसाख्यस्य छन्दसोऽन्ते स्वराश्रिता: पादा: क्षिप्यन्ते चेत् , तदा कलहंसः । स्वरेषु न्यासः समाप्तिर्यस्य स झम्पादिभिस्तालै य: । स द्विविधः-वर्णजो मात्रिकश्चेति । वर्णगणैर्निर्मितो वर्णजः । मात्रागणैनिर्मितो मात्रिकः । यदा गद्येन विरच्यते, तदा पूर्व स्वरान् गीत्वा पश्चात् पदं निवेशनीयम् ॥ २४२, २४३ ॥
Scanned by Gitarth Ganga Research Institute